________________
परीषहाध्ययनम् २ ]
[ ३१
प्राप्तः, गच्छतस्तस्य गुरुणा सूरिपदं दत्तम् । अथार्यरक्षितसूरिस्तत्र स्वमातृभगिनीप्रमुखसर्वसांसारिकवर्गं दीक्षां ग्राहितः, पिता तु प्रतिबोधितोऽपि साधुलिङ्गं न गृह्णाति, स्वज्ञातीयजनानां लज्जां च वहति । आचार्या दीक्षाग्रहणाय तस्य बहु कथयन्ति । ततः स कथयति पृथुलवस्त्रयुगल १ यज्ञोपवीत २ कमंडलु ३ छत्रिका ४ उपानद्भिः समं चेद्दीक्षां ददासि तदा लामि । ततो लाभं दृष्ट्वा तादृशमेव तं गुरुः प्रव्राजितवान्, ग्राहितश्चरणकरणस्वाध्यायम् । अन्यदा चैत्यवन्दनार्थं गता आचार्याः, तत्र साधुशिक्षिता गृहस्थडिम्भका वदन्ति एनं छात्रिणं मुक्त्वा सर्वान् साधून् वन्दामहे, ततः स वृद्धो वक्ति मम पुत्रा नप्त्रादय एते वन्दिताः, अहं कस्मान्न वन्दितः ? किं मया दीक्षा न गृहीता ? ते आहुः किं दीक्षितस्य छत्रकमण्डल्वादीनि स्युः ? ततो गुरुष्वागतेषु स वृद्धो वक्ति पुत्र ! मम डिम्भका अपि हसन्ति ततो न कार्यं छत्रेण । एवं प्रयोगेण क्रमतो धौतिकवस्त्रं मुक्त्वा सर्वं त्याजितः, बहुशस्तथा प्रयोगकरणेऽपि धौतिकं न मुञ्चति ।
अन्यदैकः साधुर्गृहीतानशनः स्वर्गं गतः, तत आचार्यैर्वृद्धस्य धौतिकत्याजनाय साधून् प्रत्येवमुक्तं य एनं 'मृतसाधुं व्यत्सृष्टं स्कन्धेन वहति तस्य महत्पुण्यम् । ततः स स्थविरो वक्त-पुत्र ! अत्र किं बहुनिर्जरा ? आचार्या आहुर्बाढम्, ततः स वक्त्यहं वहामि, आचार्या वदन्त्यत्रोपसर्गा जायन्ते, चेटकरूपाणि लग्यन्ते, यदि शक्यतेऽधिसोढुं तदा वरम्, यदि क्षोभो भविष्यति, तदाशुभमस्माकं भविष्यति एवं स्थिरीकृत्य स तंत्र नियुञ्जितः, साधुसाध्वीसमुदायः पृष्टौ स्थितः, यावत्तेन साधुशबं स्कन्धे समारोप्य वोढुमारब्धं तावत्तस्य धौतिकं गुरुशिक्षितडिम्भकैराकर्षितम्, स लज्जया यावत्तत्साधुशबं स्कन्धान्मुञ्चति तावदन्यैरुक्तं मा मुञ्च । मा मुञ्च । एकेन चोलपट्टको दवरकेण कृत्वा कटौ बद्धः, स तु लज्जया तत्साधुशबं द्वारभूमिं यावदुदूह्य तत्र व्युत्सृज्य पश्चादागतो वक्ति- 'हे पुत्राद्य महानुपसर्गो जातः ।' आहुराचार्या- ' आनीयतां धौतिकं परिधाप्यतां', ततः स वक्त्यथालं धौतिकेन, यद् दृष्टव्यं तद् दृष्टमेव, अथ चोलपट्ट एवास्तु । पूर्वं तेनाचेलपरीषहो न सोढः, पश्चात्सोढः ॥ ६ ॥
अथाचेलकस्य शीतादिभिररतिः स्यात्, अतस्तत्परीषहमाह - गामाणुगामं अंतं अणगारं अकिंचनं ।
अरई अणुप्पवेसे, तं तितिक्खे परीसहं ॥ १४॥
अरई पिठ्ठओ किच्चा, विरए आयरक्खिए । धम्मारामे निरारंभे, उवसंते मुणी चरे ॥ १५ ॥
अरतिः- संयमेऽधैर्यं यदाऽनगारमनुप्रविशदरतिपरीषहो मुनिं स्पृशेत्तदा साधुस्तं परीषहं तितिक्षेत सहेत । किं कुर्वन्तमनगारं ? ग्रामानुग्रामं रीयन्तं ग्रामं ग्राममन्वित्यनुग्रामम्,
१ वृद्धसाधुं मु० ॥