________________
३०]
[ उत्तराध्ययनसूत्रे नगरेऽधिकविद्यापठनाय कस्यचिदुपाध्यायपार्श्वे गतः, तत्र तेन साङ्गोपाङ्गाश्चत्वारो वेदाः पठिताश्चतुर्दश विद्यास्थानानि गृहीतानि । ततो दशपुरं नगरं प्राप्तः नृपादिसकललोकैः प्रवेशोत्सवं कृत्वा पूजितश्च स्वगृहे गत्वा मातरपितरौ प्रणतः । पितातीव हर्षवान् जातः, माता तु नैव हर्ष मनाग्दर्शयति । आर्यरक्षितः प्राह-'हे मातस्त्वं मदध्ययनेन किं न हृष्टा ?' सा प्राह-'किमनेन जीवघातादिनिमित्तेन बहुशास्त्राध्ययनेन किं त्वया दृष्टिवादोऽधीतः ? येन मम हर्षः स्यात्'ततस्तेन पृष्टं-'दृष्टिवादः क्वास्ति?' मात्रोक्तम् - 'ईक्षुवाटके स्थितानां तोसलिपुत्राचार्याणां समीपेऽस्ति ।' ततस्तेन भणितं - 'हे मातः ! कल्ये तत्र यास्यामि दृष्टिवादभणनार्थम् ।' रात्रौ सुप्तः सन्नेवं चिन्तयति दृष्टीनां वादो दृष्टिवाद इति नामाप्यस्य शास्त्रस्य सुन्दरमिति । प्रभाते तद्भणनार्थं तत्र चलितः, मार्गे प्रथमत एव दशपुरनगरप्रत्यासन्नग्रामवासी पितृमित्रं सार्धनवेक्षुयष्टियुतहस्तो ब्राह्मणो मिलितः, कथितं च तेनाहं तव मिलनार्थमागतोऽस्मि । ततः स्वागतं परस्परं पृष्टम्, पश्चादार्यरक्षितेनोक्तमहं क्वचित्कार्याय गच्छन्नस्मि, इदं सार्धनवेक्षुयष्टिप्राभृतं मातुर्हस्तेऽर्पणीयम्, कथनीयं चाहं पूर्वमार्यरक्षिताय मिलितः। अथ तेन तथैव कृतम् । ततो माता तुष्टा सती चिन्तयति मम पुत्रेण सुन्दरं मङ्गलं दृष्टम्, सार्धनवपूर्वाण्यध्येष्यति पुत्रः, आर्यरक्षितोऽपि शुभं शकुनं चिन्तयन् गत ईक्षुवाटकम् । तत्रैकस्मिन् पार्श्वे स्थित्वा ढळूरश्राद्धवन्दनविधिं दृष्ट्वीपाश्रयमध्ये प्रविष्टः, वन्दितास्तोसलिपुत्राचार्याः, तैः पृष्टं स्वरूप प्रयोजनं च सर्वमप्युक्त्वा मम दृष्टिवादमध्यापयन्त्विति वदन्तं तं सूरयः प्रोचुर्यद्यस्मदन्तिके प्रव्रज्यां गृह्णासि तदा तमध्यापयामः, तेनोक्तमेवमप्यस्तु । ततः स प्रवजितः कथयति भगवन्नत्र सकललोकव्याक्षिप्तस्य मम विद्याग्रहणं स्वल्पमेव भावि, तेन क्वाप्यन्यत्र गम्यते, गुरुभिस्तथा कृतम् । भाणितोऽसौ सोपाङ्गान्येकादशाङ्गानि । अथ पूर्वपठनार्थं तोसलिपुत्राचार्यैरसावार्यरक्षितः श्रीवज्रस्वाम्यन्तिके प्रेषितः, पथि गच्छन्नवन्त्यां श्रीभद्रगुप्तसूरीणां निर्यापनां कृतवान्, तैश्चान्त्यसमये प्रोक्तं पठता त्वया वज्रस्वामिमण्डल्यां न स्थेयम्, यतस्तन्मण्डली स्थाता तेनैव सह म्रियते । एवं तच्छिक्षां श्रुत्वा ततो गतः श्रीवज्रस्वामिपार्श्वे, तैश्च रात्रौ क्षीरभृतं पात्रमागन्तुकेन शिष्येण किञ्चिदूनं पीतमिति स्वप्नो दृष्टः । ततस्तेन पृथग्मण्डलीं कृत्वाऽधीतानि श्रीवज्रस्वामिपार्थे नव पूर्वाणि । वज्रस्वामी तु पृथग्मण्डलीकारणं ज्ञात्वा न किञ्चित्तस्योक्तवान् । दशमपूर्वाधिकाराः केचन यावत्तेन पठितास्तावद्दशपुराच्चिरकालविरहार्दितमातृपितृप्रमुखकुटुम्बप्रेरितः फल्गुरक्षितो भ्राता तस्याकारणाय समायातः । आर्यरक्षितेन तत्रैव प्रतिबोध्य प्रवाजितः । एकदार्यरक्षितः श्रीवज्रस्वामिनं पृच्छति भगवन्नतः परं पूर्वपाठः कियानवशिष्टोऽस्ति ? वजस्वाम्याह वत्स ! त्वया बिन्दमात्रं पठितम समद्रोपमं दशमं पर्वमस्ति, ततोऽसौ थक्कपरिणामः प्राह-नाहमतः परं पूर्वपाठं कर्तुं शक्नोमि, गुरुवस्तु दशमपूर्वार्धस्य स्वस्मिन्नेव व्युच्छेदं ज्ञात्वा मौनेन स्थिताः । असौ गुरूननुज्ञाप्य स्वसांसारिकवन्दापनार्थं दशपुरनगरे १ स्थितो मु०॥