________________
[२९
परीषहाध्ययनम् २] दुष्टजीवेषु मांसशोणितं-पललरुधिरं भुञ्जानेषूपेक्षत, उदासीनभावे वर्तेत, रागद्वेषरहितो भवेत्, प्राणांस्तान् दंशमशकादीन् मांसरुधिरं भुञ्जानान्न हन्यात् ॥ १०-११ ॥
अत्र श्रमणभद्रकथा - .
यथा चम्पायां जितशत्रुनृपस्य पुत्रः श्रमणभद्रो युवराजा श्रीधर्मघोषान्ते प्रव्रज्यैकाकित्वविहारेण विहरन्नन्यदा शरदि 'रात्रावटव्यां प्रतिमास्थितो दंशमशकैः पीड्यमानोऽपि निश्चलः स्वयमनन्तशो भुक्तनरकवेदनास्वरूपं चिन्तयन् समाधिना मृत्वा दिवं गतः । एवं दंशमशकपरीषहः सोढव्यः ॥५॥ अथ च दंशमशकादिभिः पीड्यमानो वस्त्राशाकरो न स्यादतोऽचेलपरीषहमाह -
परिजुन्नेहिं वत्थेहिं, होक्खामित्ति अचेलए । अदुवा सचेलए होक्खं, इइ भिक्खू न चिंतए ॥१२॥ एगया अचेलए होइ, सचेलए आवि एगया। . एयं धम्मं हियं नच्चा, नाणी नो परिदेवए ॥१३॥ भिक्षुः साधुर्वस्त्रेषु 'परिजीर्णेषु सत्सु इति न चिन्तयेत्, मनसि न विचारयेत् । इतीति किं ? अहं वस्त्राभावेऽचेलको निर्वस्त्रो भविष्यामि, न विद्यते चेलं-वस्त्रं यस्य सोऽचेलक इति दैन्यं न कुर्यात् । अथवैतादृशं जीर्णं स्फुटितवस्त्रं मां दृष्ट्वा कश्चिद्धर्मात्मा दाता मां वस्त्रं दास्यति तदाहं सचेलको-वस्त्रसहितो भविष्यामीति प्रमोदभागपि न स्यात्, एतावता वस्त्रस्याप्राप्तौ वस्त्रस्य प्राप्तौ वा विषादो वा हर्षो वा साधुना न विधेयः, प्राप्ताप्राप्तयोः सदृशेन भाव्यमित्यर्थः ॥१२॥ __पुनः साधुरेवं चिन्तयेत् एकदा जिनकल्पावस्थायां साधुरचेलकः स्यात्, इयमपि साधोरेवावस्था, स्थविरकल्पेऽपि दुर्लभवस्त्रत्वेन पूर्ववस्त्रस्य जीर्णत्वान्नाशे जाते सत्यपरवस्त्रप्राप्त्यभावेन निमित्तं विनापि निर्वस्त्रः स्यात्, तदा मनसि साधुनेति चिन्तनीयम् - इदानीमहं जिनकल्पावस्थां भजामि, जिनकल्पी मुनिरचेलक एव तिष्ठति । पुनरेकदा *स्थविरकल्पावस्थायां वस्त्रस्य धरणेन सचेलकः अपि भवेत्, एवं अमुना प्रकारेण वस्त्राभावे जिनकल्पावस्थाचिन्तनेन वस्त्रसद्भावे* स्थविरकल्पावस्थाचिन्तनेनोभयं धर्मं ज्ञात्वा ज्ञानी साधुर्नो परिदेवेत, नो विलापं कुर्वीत । कीदृशं धर्म ? हितं-हितकारकम् ॥१३॥
अत्र दृष्टान्तो
यथा - दशपुरे नगरे सोमदेवो द्विजोऽस्ति, तस्य भार्या रुदसोमा नाम्नी वर्तते, तयोः पुत्रावार्यरक्षित-फल्गुरक्षितौ स्तः, आर्यरक्षितेन पितुर्विद्या पूर्णा गृहीता, पश्चात्पाटलिपुत्रे १ ऋताव मु० ॥ २ परिजीर्णेष्विति मु० ॥ ** चिह्नद्वयमध्यवर्तिपाठः मु० नास्ति ॥