________________
२८]
[ उत्तराध्ययनसूत्रे अत्रारहन्नककथा -
यथा तगरानगर्यामर्हन्मित्राचार्यपार्श्वे दत्तनामा वणिग्भद्राभार्यारहन्नकपुत्रेण समं प्रवजितः, पित्रा सर्ववैयावृत्यकरणेनेतस्ततः परिभ्रम्य भव्यभिक्षाभोजनसम्पादनेन स बालोऽत्यन्तं सुखी कृतः, उपविष्ट एव भुङक्ते, कदापि भिक्षायै न भ्रमति, तद्भिक्षार्थं स्वभिक्षार्थं च पितुरेव भ्रमणात् । अन्यदा पितरि मृते साधुभिः प्रेरितः स बालो ग्रीष्मे मासे भिक्षार्थं गतः, तापाभिभूतः प्रोत्तुंगगृहच्छायायामुपविशति, पुनस्तत उत्तिष्ठति, शनैः शनैर्याति । एवं कुर्वन्तमतिसुकुमारं तमरहन्नककुमारं रूपेण कन्दर्पावतारं दृष्ट्वा काचित्प्रोषितवणिग्भार्याऽऽकार्य गहे स्थापितवती तया 'सहासौ विषयासक्तोऽभूत् । अथ तन्माता साध्वी पुत्रमोहेन ग्रथिलीभूत्वा अरे अरहन्नक ! अरे अरहन्नक ! इति निर्घोषयन्ती चतुष्पथादिषु भ्रमति । एकदा गवाक्षस्थेनारहन्नकेन तादृशावस्था माता दृष्टा, संजातात्यन्तसंवेगः स गवाक्षादुत्तीर्य पादयोः पतित्वा मातरमेवाह हे मातः ! सोऽहमरहनकः, इति तद्वचः श्रवणात्स्वस्थचित्ता माता तमेवमाह वत्स ! भव्यकुलजातस्य तव केयमवस्था ? स प्राह मातश्चारित्रं पालयितुमहंन शक्नोमि,सा प्राह तीनशनं करु.मातवचसा स तप्तशिलायां सुप्त्वा पादपोपगमनं चकार । सम्यगुष्णपरीषहं विसह्य समाधिभाग्देवत्वं प्राप्तवान् । एवमन्यैरपि साधुभिरुष्णपरीषहः सोढव्यः ॥ ४॥ ८ ॥९॥
ततो ग्रीष्मकालादनन्तरं वर्षाकालः समागच्छति, वर्षाकाले दंशमशकादय उत्पद्यन्ते, तैश्च 'पीडितेन सता तत्परीषहः सोढव्यः -
पुट्ठो य दंसमसएहिं, समरेव महामुणी । नागो संगामसीसे वा, सूरो अभिहणे परं ॥१०॥ न संतसे न वारिज्जा, मणंपि न पओसए ।
उवेहे न हणे पाणे, भुंजन्ते मंससोणियं ॥ ११ ॥ महामुनिर्महातपस्वी दंशमशकैर्जन्तुभिः स्पृष्टो भक्षितः सन्न संत्रसेत्, त्रासंन प्राप्नुयात्, *बहुवचनग्रहणात् यूकामत्कुण-"सुलसुलकादयोऽपि गृह्यन्ते । कीदृशो महामुनिः ? सम एव समत्वेन युक्तः अत्र समरे रकारः प्राकृतत्वात्, क इव ? सङ्ग्रामशीर्ष-रणशिरसि नागो इव हस्तीव, कोदृशो हस्ती ? शूरः, यथाशूरोऽभङ्गो हस्ती युद्धे स्थितः परं-शत्रु हन्यात् एवं महामुनिरपि क्रोधादिकमन्तरङ्गं शत्रु जयेत् दंशादिभिरुपयमाणः क्रोधं न कुर्यादित्यर्थः, च पुनस्तैः पीडितश्च न सन्त्रसेत् उद्वेगं न प्राप्नुयात्*, पुनस्तान् दंशादीन् न निवारयेत् । तेषां वारणे ह्याहारांतरायः स्यात्, मनोऽपि न प्रदूषयेत्, मनोऽपि कलुषं न कुर्यात्, निवारणं तु दूरे एव त्यक्तं, तेषु मनस्यपि क्रोधं न कुर्यात्, किन्तु तेषु दंशमशकादिषु १ सह स मु० ॥ २ पीडितः सन् L. ॥ * * चिह्नद्वयमध्यवर्तिपाठः मु० नास्ति ॥ ३ व्यक्तं मु०॥ ४ सुलसुलक - प्राणीविशेष ॥