SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ २६] [उत्तराध्ययनसूत्रे अत्र धनमित्रकथा - उज्जयिन्यां धनमित्रो वणिक्, धनशर्मनाम्ना स्वसुतेन समं प्रवजितः ।अन्यदा मार्गे क्षुल्लकस्तृट्पीडितो नदीं दृष्ट्वा पित्राऽवादि वत्स ! पिब जलं पश्चादालोचनया दोषशुद्धि विनी, इत्युक्ते क्षुल्लो नेच्छति, ततः पिता साधुः स्वशङ्कानिरासार्थ शीघ्र नदीमुत्तीर्याने गतः, क्षुल्लो नद्यां प्रविष्टो जलाञ्जलिमुत्क्षिप्य चिंतितवान्, कथं जलं पिबामि ? यत: *"एगंमि उदगबिंदुमि । जे जीवा जिणवरेहिं पन्नत्ता ॥ ते' पारेवयमित्ता । जंबूद्दीवे न मायंति ॥ १ ॥ [संबोधसित्तरि गाथा ९५] जत्थ जलं तत्थ वणं । जत्थ वणं तत्थ निच्चिओ अग्गी। तेऊ वाऊसहगया । तसा य पच्चक्खया चेव ॥ २ ॥ हंतूण परप्पाणे । अप्पाणं जे कुणंति सप्पाणं । अप्पाणं दिवसाणं । 'कएण नासेइ अप्पाणं ॥ ३ ॥ _इति संवेगेन जलमञ्जलितः पश्चाद्यत्नेन मुक्तम्, ततस्तृषया मृत्वा स देवो जातः, अवधिज्ञानावगतपूर्वभववृत्तान्तेन तेन साधूनामनुकंपया पथि गोकुलं कृतम्, तत्र तक्रादि शुद्धमिति गृहीत्वा साधवः सुखिनो जाताः, अग्रे चलिताः, तेन देवेन स्वस्वरूपज्ञापनार्थमेकस्य साधोविटिका गोकुले स्थापिता, विटिकाग्रहणार्थं पश्चाद्वयावृत्तमुनिवचसा सर्वैरपि साधुभिातगोकुलाभावैस्तत्र दिव्यमाया ज्ञाता, तत्पिण्डभोजनविषयं मिथ्यादुष्कृतं दत्तम् । ततस्तत्रायातेन देवेन पितरं मुक्त्वा सर्वे साधवो वन्दिताः, पित्राऽवंदनकारणं पृष्टः सर्वं स्ववृत्तान्तं पितुर्जलपानानुमतिं च प्रोच्य गतो देवः स्वस्थानम्, एवं क्षुल्लकवत्तृट्परीषहः सोढव्यः ॥२॥ अथ क्षुधापिपासापीडितस्य कृशस्य शीतमपि शरीरे लगति, तदपि सोढव्यम्, तदपि गाथाद्वयेनाह चरंतं विरयं लूह, सीयं फुसइ एगया । नाइवेलं मुणी गच्छे, सुच्चा णं जिणसासणं ॥६॥ न मे निवारणं अत्थि, छवित्ताणं न विज्जई । अहं तु अग्गि सेवामि, इइ भिक्खू न चिंतए ॥७॥ * एकस्मिन्नुदकबिन्दौ, ये जीवा जिनवरैः प्रज्ञप्ताः ॥ ते पारापतमात्रा, जम्बूद्वीपे न मान्ति ॥१॥ यत्र जलं तत्र वनं, यत्र वनं तत्र निश्चितोऽग्निः ॥ तेजः वायुसहगतं, त्रसाश्च प्रत्यक्षका चैव ॥२॥ हत्वा परप्राणा, आत्मानं ये कुर्वन्ति सप्राणम् ॥अल्पानां दिवसानां कृते नाशयति आत्मानम् ॥३॥ १ ते सरसवमित्ता' इति पाठः ॥ २ कए य नासेइ मु०॥ ३'नानुमिति L.॥
SR No.022592
Book TitleUttaradhyayan Sutram Part 01
Original Sutra AuthorN/A
AuthorVajrasenvijay, Bhagyeshvijay
PublisherBhadrankar Prakashan
Publication Year2001
Total Pages350
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy