________________
परीषहाध्ययनम् २]
[२५ चानिच्छन्तमपि क्षुल्लकं गृहीत्वा ते साधवश्चेलुः । क्षुल्लकोऽर्धमार्गात्तान् विप्रतार्य पितृमोहेन तत्रायातः, तावता गृहीताऽनशनः स मृतो देवोऽभूत, क्षुल्लको मौग्ध्यात्तं मृतं न जानाति, सुप्तस्य तत्कलेवरस्य पार्श्व एव भ्रमति, क्षुधार्तोऽपि फलादिकं न गृह्णाति, ततः स देवः क्षुल्लकमोहेन निजदेहमधिष्ठायावदद्वत्स ! गच्छ भिक्षायां । क्षुल्लकेन भणितं कुत्र व्रजामि ? तेन भणितमेषु'ध'वनिकुञ्जेषु व्रज, तन्निवासिनो जना भिक्षां दास्यन्ति, ततस्तथेति भणित्वा क्षुल्लकस्तत्र गतो धर्मलाभमुच्चचार, स देवो नरनारीरूपं विधाय करं प्रसार्य दिव्यशक्त्या तस्मै भक्तपानादि ददौ, तावद्यावद् दुर्भिक्षे निवृत्ते भोजकटनगरात् पश्चाद्वलिताः साधवस्तेनैव मार्गेण तत्रागताः, जीर्णशबं दृष्ट्वा ज्ञातदिव्यप्रयोगास्तं क्षुल्लकं गृहीत्वा विजहुः । यथा ताभ्यां पितृपुत्राभ्यां क्षुत्परीषहः सोढस्तथा साम्प्रतिकमुनिभिरपि सोढव्यः ।
___ अथ भिक्षार्थमटतस्तृषाया उदयः स्यात्तदा तत्परीषहोऽपि सोढव्यः, इसमेवार्थ गाथाद्वयेनाह -
तओ पुट्ठो पिवासाए, दुगंच्छी लज्जसंजए। सीओदगं न सेविज्जा, वियडस्सेसणं चरे ॥ ४ ॥ छिन्नावाएसु पंथेसु, आउरे सुपिवासिए ।
परिसुक्कमुहेऽदीणे, तं तितिक्खे परीसहं ॥ ५ ॥ ग्रामनगरादौ भिक्षार्थं भ्रमन् दुगञ्छी-अनाचारागीतः, एतादृशो लज्जसंयतो लज्जायां सं-सम्यक् यतते-यलं कुरुते इति लज्जसंयतो लज्जावान् साधुन हि निर्लज्जो धर्मार्हः, तस्माल्लज्जसंयतस्तपस्वी । ततः क्षुधापरीषहानन्तर एव पिपासया-तृषया स्पृष्टः सन् शीतोदकमप्रासुकजलं न सेवेत न पिबेदित्यर्थः । 'वियडस्स' प्रासुकजलस्य शस्त्रपरिणतस्य रसान्तरं वर्णान्तरं च प्राप्तस्य वह्नयादिना शुद्धस्यैषणाय ग्रहणाय चरेत्, प्रासुकपानीयग्रहणाय गृहस्थगृहे व्रजेदित्यर्थः ॥ ४ ॥
__अथ ग्रामनगरादिभ्यो बहिर्वनाटव्यादिमार्गे व्रजन् साधुश्चेत्तृषया पीडितः स्यात्तदापि तृषापरीषहं सहेन तु तत्र साधुनैवं ज्ञातव्यमत्र कोऽपि गृहस्थो दाता न दृश्यतेऽहं स्वयमेव जलं गृहीत्वा पिबामि । तदेव मार्गवैषम्यमाह - 'छिन्नेति' एतादृशेषु पथिषु-मार्गेषु पूर्वोक्तस्तपस्वी पिपासापरीषहं तितिक्षेत-सहेत, कीदृशेषु पथिषु ? छिनो गत-आपातो लोकानां गमनागमनं येभ्यस्ते छिन्नापातास्तेषु, कीदृशः ? स्वयं तपस्व्यातुरस्तृषया आकुलतनुः, पुनः कीदृशः ? सुपिपासितः, सुतरामतिशयेन पिपासितोऽत्यन्तं तृषितः, पुनः कीदृशः ? परिशुष्कमुखो गतनिष्ठीवनत्वेन शुष्कतालुजिह्वोष्ठः, पुनः कीदृशः ? एतादृशोऽप्यदीनः ॥५॥
१धवनिकुंजेषु त्वं व्रज मु०॥ २धव = वृक्षविशेष ।