________________
२४]
[उत्तराध्ययनसूत्रे अथ द्वाभ्यां गाथाभ्यां क्षुधापरीषहजयं वदति -
दिगंछापरिगए देहे, तवस्सी भिक्खू थामवं। ..... न छिदे न छिदावए, न पए न पयावए ॥२॥ कालीपव्वंगसंकासे, किसे धमणिसंतए ।
मायने असणपाणस्स, अदीणमणसो चरे ॥३॥ तपस्वी साधुर्दिगञ्छा-क्षुधा, तया परिगते-व्याप्ते देहे सति न छिद्यात्, तरूणां फलादिकं स्वयं न त्रोटयेत्, न चापरेण छेदयेत्, न च स्वयमन्नादिकं शाकादिकं च पचेत्, न च परेण पाचयेत्, नवकोटिशुद्धिबाधां न कुर्यात्, 'कथंभूतस्तपस्वी ? स्थामवान् मनोबलयुक्तः, पुनः कीदृशः ? कालीपर्वाङ्गसङ्काशः, काली-काकजङ्घा, तस्याः पर्वाणि मध्ये तनूनि भवन्ति, अन्त्ये स्थूलानि भवन्ति । तदाकाराणि बाहुजङ्घाद्यङ्गानि भवन्ति यस्य तपस्विनो जानुकूर्परादयोऽवयवाः काकजङ्घासदृशा दृश्यन्ते इत्यर्थः । कालीपर्वसङ्काशाङ्ग इति पाठो युज्यते, कालीपर्वांगसङ्काशः इति पाठस्त्वार्षत्वात्, प्राकृतत्वात् सङ्काशशब्दस्य परनिपातः, अङ्गशब्दस्य पूर्वनिपातः, पुनः कथंभूतस्तपस्वी ? कृशः, पुनः कथंभूत-स्तपस्वी ? धमनीसंततः धमनीभिर्नाडीभिः संततो-व्याप्तो यस्य शरीरं नसाभिर्व्याप्तं दृश्यत इत्यर्थः । पुनः कीदृशस्तपस्वी ? अशनपानस्य 'मायन्ने' मात्रज्ञो मात्रमन्नपाने स्वस्योदर-पूर्तिप्रमाणं जानाति, यावताऽऽहारेण स्वकीयोदरपूर्तिः स्यात्तावत्प्रमाणमेवाहारं गृह्णीयात्, न तु यस्तपस्वी रसादिलौल्यादधिकं गृह्णातीत्यर्थः, इति मात्रज्ञः । पुनर्यस्तपस्वी अदीनमनाः, अदीनं मनो यस्य सोऽदीनमनाः, तपसः पारणादावाहारस्याप्राप्तावप्यदीनचित्तः सन् चरेत्, संयममार्गे प्रवर्तेत, अलब्धे तपसो वृद्धिलब्धे देहस्य धारणा इति बुद्धि चित्ते दधानस्तिष्ठेदित्यर्थः ॥२॥३॥
तत्र दृष्टान्तो -
यथा उज्जयिन्यां हस्तिमित्रश्रेष्ठी वर्तते, तस्य हस्तिभूतनाम बालकोऽस्ति, अन्यदा हस्तिमित्रश्रेष्ठिनः प्रिया मृता, दुःखगर्भवैराग्येण हस्तिमित्रश्रेष्ठी हस्तिभूतदारकेण समं प्रव्रजितः ।अन्यदा दुर्भिक्षे साधुभिः समं विहरन्नसौ हस्तिमित्रसाधुर्भोजकटनगरमार्गाटव्यां कण्टकेन विद्धपादोऽग्रे विहर्तुमक्षमोऽटव्यामेव स्थितः, तमक्षमं दृष्ट्वा साधुभिर्भणितं वारकेण त्वां मार्गे वहिष्यामः, मा विषादं कृथाः, तेन भणितं मदायुः स्तोकमेवास्ति, अतोऽहमत्रैव भक्तं प्रत्याख्यामि, यूयं यात । मदर्थमत्र "स्थितस्यान्यस्य कस्यापि साधोर्माभूद्विनाश इत्युक्तवन्तं क्षमयित्वा भक्त-पानप्रत्याखानं कारयित्वा तत्रैव मुक्त्वा १ क कथंभूत मु०॥ २ मायनत्ति मु० ॥ ३ देहधारणा मु०॥ ४ स्थितस्यान्यस्यापि L.॥