SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ परीषहाध्ययनम् २] [२३ तदा श्रीसुधर्मास्वामी जम्बूस्वामिनम् प्रति वदति - इमे खलु ते बावीसं परीसहा समणेणं भगवया महावीरेणं कासवेणं पवेइया, जे भिक्खू सुच्चा नंच्चा जिच्चा अभिभूय भिक्खायरियाए परिव्वयंतो पुट्ठो नो विहन्निज्जा ॥ हे जम्बू ! इमे वक्ष्यमाणा हृदि वर्तमानत्वात् प्रत्यक्षा ये त्वया सोढास्ते द्वाविंशतिपरीषहाः श्रमणेन भगवता महावीरेण काश्यपेन प्रवेदिता, यान् परीषहान् श्रुत्वा ज्ञात्वा जित्वाभिभूय भिक्षाचर्यायां परिव्रजन् साधुः परीषहैः स्पृष्टः सन्न 'विहन्येत । 'तद्यथा-तेषां परीषहाणां नामान्युच्यन्ते । तं जहा - दिगंछापरीसहे० १, पिवासापरीसहे० २, सीयप० ३, उसिणप० ४, "दंसमसयप० ५, अचेलप० ६, अरतिप० ७, इत्थीप०८, चरियाप०९,निसीहियाप० १०,सिज्जाप० ११, अक्कोसप०१२, वहप० १३, जायणाप०१४,अलाभप०१५, रोगप० १६, तणफासप०१७,जल्लप० १८, सक्कारपुरक्कारप० १९, पन्नाप० २०, अन्नाणप० २१, दंसणप० २२॥ नामानि सुगमान्येव । नवरं दिगंछाशब्देन देशीभाषया क्षुधोच्यते, सा क्षुधैव षटकायमदनपातकभयेनाहारपाकादिनिवर्तनेन, शुद्धाहारालाभेन वा, परि समंतात् सह्यते इति परीषहो दिगञ्छापरीषहः, एवमपरेष्वपि व्युत्पत्तिः कार्या । परीषहाणां नामान्युक्त्वा स्वरूपेण वक्तुकामः सम्बन्धार्थमाह - परीसहाणं पविभत्ती, कासवेणं पवेइया । तं भे उदाहरिस्सामि, आणुपुव्वि सुणेह मे ॥१॥ हे शिष्याः परीषहाणां प्रविभक्तिः- प्रकर्षेण विभजनं प्रविभक्तिः, पृथक्पृथग्विभागः-प्रविभक्तिः, काश्यपेन-काश्यपगोत्रीयेण श्रीमहावीरदेवेन प्रवेदिता 'विद् ज्ञाने' प्रकर्षेण ज्ञाता इत्यर्थः । तां परीषहाणां प्रविभक्तिमहमानु पूर्व्याऽनुक्रमेण 'भे' भवतामुदाहरिष्यामि, 'मे' मम कथयिष्यतस्तां परीषहप्रविभक्तिं यूयं श्रृणुत ॥१॥ अत्र सर्वेषु परीषहेषु पूर्वं क्षुधाया निर्देशः, सर्वेषु परीषहेषु क्षुधाया दुस्सहत्वात्, यदुक्तं - खुहासमा वेयणा नत्थि' इति । १ विहन्यते D.॥ २ तद्यथा मु० नास्ति ॥ ३ उसणप० मु०॥ ४ दसमसपरि 'मु०॥ ५ 'पूर्व्यामनु मु०॥ ६ क्षुधासमा वेदना नास्ति ॥
SR No.022592
Book TitleUttaradhyayan Sutram Part 01
Original Sutra AuthorN/A
AuthorVajrasenvijay, Bhagyeshvijay
PublisherBhadrankar Prakashan
Publication Year2001
Total Pages350
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy