SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ २. परीषह अध्ययनं अयं च विनयः परीषहजेतृभिः साधुभिः कर्तव्यस्तस्मात् सुधर्मास्वामी जम्बूस्वामिनं प्रत्याह सुअं मे आउसं तेणं भगवया एवमक्खायं, इह खलु बावीसं परीसहा समणेणं भगवया महावीरेणं कासवेणं पवेइया, जे भिक्खू सुच्चा नच्चा जिच्चा अभिभूय भिक्खायरियाए परिव्वयंतो पुठ्ठो नो विहन्निज्जा ॥ 'इत्यालापकम्, अस्यार्थ :-'आउस' इति शिष्यस्यामंत्रणे',हे आयुष्मन् ! हे शिष्य ! मे-मया श्रुतम् 'तेणं' इति तेन सद्गुरुणा प्रसिद्धेन भगवता ज्ञानवतैवमाख्यातमेवं समन्तात् कथितम् । 'इह' अस्मिन् जिनशासने हे शिष्य ! हे जम्बू ! श्रमणेण भगवता महावीरेण काश्यपगोत्रेण 'खलु' निश्चयेन द्वाविंशतिपरीषहाः प्रवेदिताः- प्रकर्षेण स्वयं साक्षात्कारित्वेन ज्ञाताः । तीर्थङ्कराणां स्वयं सम्बुद्धत्वादात्मागमः, गणधराणामनन्तरागमः, तीर्थकरेभ्यो यादृशमर्थं गणधराः श्रृण्वन्ति, तादृशमनन्तरं धारयन्ति तस्माद्गणधराणामनन्तरागमो, गणधरशिष्याणां हि परम्परागमः, तस्मात् श्रीमहावीरस्वामिना स्वयमेव ज्ञाताः, परि समन्तात् सह्यन्ते साधुभिरिति परीषहा द्वाविंशतिर्यान् द्वाविंशतिपरीषहान् भिक्षुः साधुः श्रुत्वा गुरुमुखात्, कर्णे धृत्वा, "ज्ञात्वा यथास्वरूपेणावबुद्धय, यान् परीषहान् जित्वा पुनः पुनरभ्यासेन परिचितान् कृत्वा, पुनर्यान् परीषहानभिभूय धैर्येण तिरस्कृत्य भिक्षाचर्यायां परिव्रजन् साधुस्तैभविंशतिपरीषहैः स्पृष्ट आश्लिष्टः सन्न विहन्येत संयमरूपशरीरपातेन न म्रियेत । इति सुधर्मस्वामिना प्रोक्ते सति जम्बूस्वामी गुरुं प्रति पृच्छति - कयरे खलु"ते बावीसं परीसहा समणेणं भगवया महावीरेणं कासवेणं पवेइया ? जे भिक्खू सुच्चा नच्चा जिच्चा अभिभूय भिक्खायरियाए परिव्वयंतो पुट्ठो नो विहन्निज्जा ॥ हे स्वामिन् ! कतरे- के ते किनामानः, खलु-निश्चयेन, खलु शब्दो वाक्यालङ्कारे वा, द्वाविंशतिपरीषहा यान् श्रुत्वा ज्ञात्वा जित्वाऽभिभूय भिक्षाचर्यायां परिव्रजन् साधुर्यैाविंशतिपरीषहैः स्पृष्टः सन्न 'विहन्येत । १ इत्याद्यालापकं मु०॥ २'णं-मु०॥ ३ साक्षाद् ज्ञाताः मु०॥ ४ ज्ञात्वा D. नास्ति ॥ ५ ते म० नास्ति ॥ ६ विहन्यते D.॥
SR No.022592
Book TitleUttaradhyayan Sutram Part 01
Original Sutra AuthorN/A
AuthorVajrasenvijay, Bhagyeshvijay
PublisherBhadrankar Prakashan
Publication Year2001
Total Pages350
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy