________________
विनयाध्ययनम् १]
[२१ पुनः कीदृशः सुशिष्यः ? महाद्युतिमहती द्युतिर्यस्य स महाद्युतिः, 'महातपास्तेजोलेश्यापुलाकलब्थ्यादिसहितो भवति तादृशः सन् पञ्चमहाव्रतानि पालयित्वा कीदृशो भवति ? ॥४७॥
तदाहस देवगंधव्वमणुस्सपूइए, चइत्तु देहं मलपंकपुव्वयं । सिद्धे वा हवइ सासए, देवे वा अप्परए महड्डिए ॥४८॥त्तिबेमि ॥
स पूर्वोक्तलक्षणसहितो मुनिविनयी शिष्यो देवैदशकल्पवासिभिर्गंधर्वैर्देवगायनैस्तथा मनुष्यैः पूजितो भवति, ततश्चायुःक्षये देहं त्यक्त्वा सिद्धो भवति । कथंभूतः सिद्धः? शाश्वतो-जन्ममरणरहितः, कथंभूतं देहं ? मलपङ्कपूर्वकं, मनुष्यशरीरं हि औदारिकं 'शुक्र-रेतोजनितं* भवति, तादृशं त्यक्त्वा सिद्धिभाक् स्यात्, अथवा देवो भवति, देवः कीदृशः ? अल्परतोऽल्पमविद्यमानं रतं क्रीडितं मोहनीयजनितं कर्म यस्य सोऽल्परतः, अथवाल्परजा रजोरहितः, पुनः कथंभूतो देवः ? महर्द्धिको महती ऋद्धिर्यस्य स महर्द्धिकः, ऋद्धिर्विकुर्वणा तया सहित, इति परिसमाप्तौ । एवममुना प्रकारेण वा एतद्विनयश्रुताध्ययनं ब्रवीमि गणधराद्युपदेशेन, न तु स्वबुद्धया ब्रवीमि ॥ ४८ ॥
इति श्रीमदुत्तराध्ययनसूत्रार्थदीपिकायामुपाध्यायश्रीलक्ष्मीकीर्तिगणिशिष्यलक्ष्मीवल्लभगणिविरचितायां प्रथमाध्ययनार्थः सम्पूर्णः ॥ १ ॥
१महातपस्ते D.L. ॥ २ शुक्ररक्त-मु०॥ * रेतस्% वीर्य