________________
२०]
[उत्तराध्ययनसूत्रे नच्चा नमइ मेहावी, लोए कित्ती से जायए।
हवइ किच्चाण सरणं, भूयाणं जगई जहा ॥ ४५ ॥ मेधावी-बुद्धिमान् साधुर्नमति-विनयं करोति, किं कृत्वेति विनयशिक्षा ज्ञात्वा, तस्य नम्रस्य लोके कीर्तिर्जायते, पुनः स विनयवान् साधुः कृत्यानामुचितकार्याणां शरणं भवत्याश्रयो भवति । केषां का ? यथा भूतानां-तरूणां जगति-पृथ्वी यथा आश्रयभूता तथा सर्वेषां साधुकार्याणां विनयी साधुराश्रयो भवतीत्यर्थः ॥ ४५ ॥
पुज्जा जस्स पसीयंति, संबुद्धा पुव्वसंथुया।
पसन्ना लाभइस्संति, विउलं अट्ठियं सुयं ॥ ४६ ॥ पूज्या-आचार्या गुरवो यस्य शिष्यस्य प्रसीदन्ति-प्रसन्ना भवन्ति, ते गुरवः प्रसन्नाः सन्तस्तं शिष्यं प्रति 'विपुलमर्थितं-विस्तीर्णं वाञ्छितं श्रुतं-श्रुतज्ञानं लाभयिष्यन्तिप्रापयिष्यन्ति, कथंभूताः पूज्याः ? सम्बुद्धाः- सम्यग्ज्ञाततत्वाः, पुनः कथंभूताः ? पूर्वसंस्तुता:-पूर्वं सम्यक्प्रकारेण स्तुताः पठनकालात्पूर्वमेव संस्तुता विनयेन परिचितारञ्जितास्तत्कालविनयस्य कृतिप्रतिक्रियारूपत्वेन तथाविधप्रसादाऽजनकत्वात्, तेन सर्वदा संस्तुताः । अथवा कथंभूतं श्रुतम् ? आर्थिकमर्थो मोक्षः प्रयोजनमस्येति आर्थिकमर्थान्मोक्षोत्पादकं श्रुतधर्मं प्रापयिष्यन्ति ॥ ४६ ॥
स पुज्जसत्थे सुविणीयसंसए, मणोरुई चिट्ठइ कम्मसंपया । तवोसमायारिसमाहिसंवुडे, महज्जुई पंचवयाई पालिया ॥४७॥
स सुशिष्य आचार्येभ्यो लब्धश्रुतध मनोरुचिस्तिष्ठति, मनसो रुचि र्मल्यं यस्य स मनोरुचिनिर्मलचित्तः, अथवा मनसो-गुरोश्चित्तस्य रुचिर्यस्य स मनोरुचिः, गुरुचित्तस्थ बुद्धियुक्त इत्यर्थः । पुनः कीदृशः 'सुशिष्यः ? कर्मसम्पदा दशधा समाचारी करणसम्पदोपलक्षितः, पुनः कीदृशः ? पूज्यशास्त्रः, पूज्यं-सर्वजनश्लाघ्यं शास्त्रं यस्य स पूज्यशास्त्रः, गुरुमुखादधीतं शास्त्रं विनयपूर्वकमधीतं च पूज्यं शास्त्रं भवत्येव यदुक्तम् -
"नहि भवति निविगोपक-मनुपासितगुरुकुलस्य विज्ञानम्। __ प्रकटितपश्चिमभाग, पश्यत नृत्यं मयूरस्य ॥ १ ॥" पुनः कीदृशः सुशिष्यः ? सुविनीतसंशयः सुतरामतिशयेन विनीतो-दूरीकृतः संशयो यस्य स सुविनीतसंशयोऽपगतसंशयो लब्धरहस्य इत्यर्थः । पुनः कीदृशः स ? तपःसमाचारीसमाधिसंवृतस्तपसः समाचारी रेतपःसमाचारी, तपःसमाचरणं समाधिश्चित्तस्य स्वास्थ्यम्, तपःसमाचारी च समाधिश्च तपःसमाचारीसमाधी, ताभ्यां संवृतो-निरुद्धाश्रवः, १ विपुलमर्थिनं मु०॥ २ स सुशिष्यः मु०॥ ३ तपः समाचारी मु० नास्ति ॥