________________
विनयाध्ययनम् १ ]
आयरियं कुवियं नच्चा, पत्तिएण पसायए । 'विज्झवेज्ज पंजलिउडो, वइज्ज न पुणोत्ति य ॥ ४१ ॥
सुशिष्य आचार्य - गुरुं पत्तिएण' प्रीतिसमुत्पादकेन वचनेन प्रसादयेत्प्रसन्नं कुर्यात् । किं कृत्वा ? कुपितं ज्ञात्वा-गुरुं सक्रोधं ज्ञात्वा विनीतशिष्यः प्राञ्जलिपुटः सन् क्रुद्धमाचार्यं विध्यापयेच्छान्तं कुर्यात्, क्रुद्धस्य गुरोरग्रे सुशिष्येणेवं वक्तव्यम्, हे स्वामिन् ! पुनरेवं न कुर्यां ममापराधोऽयं क्षन्तव्यः ॥ ४१ ॥
"
धम्मज्जियं च ववहारं, बुद्धेहायरियं सया ।
तमायरंतो ववहारं, गरहं नाभिगच्छइ ॥ ४२ ॥
[१९
साधुस्तं व्यवहारं साध्वाचारमाचरन् गर्हां नाभिगच्छति, व्यवह्नियते-अङ्गीक्रियते धर्मार्थिभिरिति व्यवहारस्तं व्यवहारमङ्गीकुर्वन् मुनिर्निन्दां न प्राप्नोति, तं कं व्यवहारं ? यो व्यवहारः सदा-सर्वदा बुद्धैर्ज्ञाततत्त्वैराचरितः, पुनर्यश्च व्यवहारो धर्मार्जितो धर्मेणसाधुधर्मेणोत्पादितः । कथंभूतं व्यवहारम् ? व्यपहारं विशेषेणापहरति पापमिति व्यपहारस्तं व्यपहारमनेन प्राणातिपाताद्याश्रवनिवारकः साध्वाचारो दर्शितः ॥ ४२ ॥
मणोगयं वक्कगयं, जाणित्तायरियस्स उ ।
तं परिगिज्झ वायाए, कम्मुणा उववायए ॥ ४३ ॥
सुशिष्य आचार्यस्य मनोगतं मनसि स्थितं कार्यं पुनर्वाक्यगतं कार्यं पूर्वं ज्ञात्वा पश्चात्तत्कार्यं वाचा परिगृह्याङ्गीकृत्याहमेतत्कार्यं करोमीत्युक्त्वा कर्मणा-क्रियया तत्कार्यमुत्पादयेत्, गुरोर्मनसि स्थितं, गुरूक्तं, गुरुणा क्रियमाणं कार्यं सुशिष्येण त्वरितं विधेयमित्यर्थः ॥ ४३ ॥
वित्तो अचोइए निच्चं, खिप्पं हवइ सुचोइए ।
जहोवइट्टं सुकयं, किच्चाइं कुव्वइ सया ॥ ४४॥
'वित्तो' विनयादिगुणेन प्रसिद्धो विनीतशिष्योऽनोदितोऽप्रेरितोऽपि सर्वेषु कार्येषु नित्यं प्रवर्त्तते, कदाचित्स्वयं कार्यं कुर्वाण आचार्येण प्रेरितश्चेत्तदा क्षिप्रं भवति - शीघ्रं कार्यकृद्भवति, कार्यं कुर्वन्नाचार्यप्रेरितः शिष्य एवं न ब्रूयादहं तु कार्यं करोम्येव, किं भवद्भिर्वृथैव प्रलप्यते ? ग्यथोपदिष्टं सुकृतं कार्यं सदा कुर्वीत, एकं कार्यं वाऽथवा कृत्यानि बहूनि कार्याणि कुर्वीत, गुर्वादेशेष्वालस्यं न विधेयम्, प्रसन्नतया तदेव कार्यं त्वरितं विधेयमित्यर्थः ॥ ४४ ॥
१ विज्झज्झ मु० ॥ २ समायरंतो मु० ॥ ३ यथोपदिष्टं कार्यं D.L. ॥