SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ १८] [ उत्तराध्ययनसूत्रे दुविनीतशिष्यः कल्याणमिहलोक-परलोकहितमनुशासन्तं-शिक्षयन्तमाचार्यं पापा दृष्टिरस्येति पापदृष्टिः, अयमाचार्यः पापदृष्टिरस्ति-पापकारी वर्तते 'मे' मह्यं 'खडुकान्टक्करान् ददाति, 'मे' मह्यं चपेटान् ददाति, 'मे' मह्यमाक्रोशान्-दुर्वचनानि श्रावयति, पुनः 'मे' मह्यं वधान्- 'कम्बादिघातान् ददाति, अपरं समीहितं किमपि न दृश्यते, आचार्यः पापः केवलं मह्यं टक्करादीनेव ददातीति मन्यते, न तु हितकारकमाचार्यं मनुते ॥ ३८ ॥ अथ पुनर्विनीतदुर्विनीतयोवर्णनमाह - पुत्तो मे भाय नाइत्ति, साहू कल्लाणमन्नइ । पावदिट्ठी उ अप्पाणं, सासं दासं व मन्नइ ॥३९॥ साधुः सुशिष्यः कल्लाणं-हितकारं गुरुं गुरुवचनं वा कल्याणकारकं मनुते । अयमभिप्रायः-यदा सुशिष्यं प्रत्याचार्यो गुरुरनुशास्ति तदा सुशिष्यो मनस्येवं जानाति, आचार्यो 'मे' मम पुत्रस्येव भ्रातुरिव ज्ञाते:- स्वजनस्य स्वस्येवानुशास्ति स्वकीयस्य बुद्धया 'मे' मह्यं पाठयति । पापदृष्टिः- कुशिष्यो गुरुणा शास्यमानमात्मानं दासमिव मनुते, अयं मां दासमिव तर्जयतीति मनसि दुःखितो भवत्याचार्यं निन्दतीत्यर्थः ॥३९॥ न कोवए आयरिश्र, अप्पाणंपि न कोवए । बुद्धोवघाई न सिया, न सिया तुत्तगवेसए ॥ ४० ॥ विनीतशिष्य आचार्य न कोपयेत्तथाऽपरमपि न कोपयेत्तथात्मानमपि न कोपयेत्, पुनः शिष्यो बुद्धोपघात्याचार्यस्योपघातकारी न स्यात्, युगप्रधानाचार्योपघातिकुशिष्यवन्न स्यात्, पुनस्तोत्रंगवेषकोऽपि न स्यात् यथा दुर्विनीततुरगः प्राजनकगवेषको भवेत्तथा सुशिष्यो दव्यतो भावतश्च तोत्रस्य-प्राजनकस्य गवेषको न भवेत् । दव्यतोत्रं चपेटादि, भावतोत्रं व्यथाकारिवचनं ज्ञेयम् । अत्र दृष्टान्त: कोऽप्याचार्योऽष्टविधगणिसम्पत्समन्वितो बहुश्रुतः प्रकृत्यापि शान्तः क्षीणजङ्घाबलः क्वापि ग्रामे स्थितः, तत्र कुशिष्याः सततं 'वैयावृत्यविधिविधानभग्नपरिणामैर्गुरुमारणार्थं सदौषधादिचिन्ताकारकाणामपि श्रावकाणां पुर इति प्रवदन्ति-गुरवोऽनशनं चिकीर्षवः किमप्यौषधादिकं न गृह्णन्ति, इत्युक्त्वान्तप्रान्तमाहारमानीय गुरवे प्रयच्छन्ति वदन्ति [च ] नित्यावस्थायित्वेनात्मनां गृहस्था अतिविशिष्टं न किञ्चिद्यच्छन्ति । ततः श्राद्धैः संलेखनास्वरूपं गुरवः पृष्टाः, शिष्याणां कूटमप्रीतिं च ज्ञात्वा कृतमेवानशनं तैरित्येवमाचार्योपघाती न स्यादितिभावः ॥ ४० ॥ १ खड्डक = ठोकर। २ कम्बा = यष्टि । ३ वैयावृत्त्यविधान० D.L. ॥
SR No.022592
Book TitleUttaradhyayan Sutram Part 01
Original Sutra AuthorN/A
AuthorVajrasenvijay, Bhagyeshvijay
PublisherBhadrankar Prakashan
Publication Year2001
Total Pages350
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy