________________
विनयाध्ययनम् १ ]
[ १७
बीजग्रहणोपलक्षणेन सर्वैकेन्द्रियरहिते, पुनः कीदृशे ? प्रतिच्छन्ने- 'सम्पातिमजीवरक्षार्थं संवृते पार्श्वतः कटकुट्याद्याच्छादिते, अन्यथा रङ्कादिदीनयाचकादीनां याचने दानाभावे निन्दाया उत्पत्तेः प्रद्वेषसम्भवात्, दाने सस्ति पुण्यबन्धसद्भावात्, तस्मान्निरवद्यस्थाने आहारं कुर्यात् ॥ ३५ ॥
अथाहारकरणप्रस्तावे वाग्यतनामाह
-
सुकडित्ति सुपक्कित्ति, सुच्छिन्ने सुहडे मडे ।
सुनिट्ठिए सुलट्ठित्ति, सावज्जं वज्जए मुणी ॥ ३६ ॥
मुनिरेतादृशं सावद्यं - सपापं वचनं वर्जयेन्न बुवीत, एतादृशं कीदृशं ? तदाहसुकृतमिदमन्नादि, पुनः सुपक्कं घृतपूरादि, सुच्छिन्नमिदं शाकादि, सुहृतम्-कारेल्लकादिस्थं कटुकत्वं सम्यक् हृतम्, अथवा वटकादिना मगदसीरककंसारादिना घृतं सुष्ठु हूतम्, तथा पुनर्मृतं-मुद्गादिके सुष्ठु घृतं मृतम्, एतदाहारं सम्यग्निष्ठां प्राप्तं सरसत्वं प्राप्तम्, पुनरिदमाहारं सुलष्टमखंडोज्ज्वलतन्दुलहरितमुद्गादिनिष्पन्नमेतत् प्रधानं भोजनमित्यादिकं वचनं वर्जयेत् । निरवद्यं तु भाषेत यथा- क्रमात् सुकृतं धर्मध्यानादि, सुपक्वं वचनविज्ञानादि, सुष्ठु छिन्नं स्नेहपाशादि, सुष्ठु हृतं मिथ्यात्वादि, सुष्ठु मृतं पण्डितमरणेन, सुनिष्ठितं साध्वाचारे, सुष्टं व्रतग्रहणमित्यादि निरवद्यं वचनं ब्रूयादित्यर्थः ॥ ३६ ॥ विनीताविनीतयोरनुशासने गुरोर्यत् स्यात् तदाह -
रमए पंडिए सासं, हयं भद्दं व वाहए ।
बालं सम्मइ सासंतो, गलियस्सं व वाहए ॥ ३७ ॥
अत्र गुरुरिति कर्तृपदमनुक्तमपि गृहीतव्यम्, गुरुः पण्डितान् विनीतशिष्यान् शासत् - शिक्षां ददत् पाठयन् रमते रतिमान् स्यात् प्रसन्नो भवेदित्यर्थः, क इव ? वाहक इवअश्ववार इव, यथाश्ववारो भद्रं - सुशिक्षितं हयं वाहयन्-खेलयन् रमते - हर्षितो भवेत्, बालंमूर्ख शिष्यं शासदाचार्यः श्राम्यति-श्रमं प्राप्नोति, कमिव ? गल्यश्चं दुर्विनीततुरङ्गं वाहक इवाश्ववार इव, यथाश्ववारो दुर्विनीततुरङ्गं वाहयन् खेदं प्राप्नोति, तथा कुशिष्यं पाठयन् गुरुर्दुःखितो भवेदित्यर्थः ॥ ३७ ॥
गुर्वनुशासनेऽविनीताभिप्रायमाह -
खड्डुया मे चवेडा मे, अक्कोसा य वहा य मे । कल्लाणमणुंसासंतो, पावदिट्ठित्ति मन्नइ ॥ ३८ ॥
१ सम्पातिमसत्त्वजीवरक्षार्थं - L. ॥
3