________________
१६]
[उत्तराध्ययनसूत्रे पुनर्गृहस्थगृहे आहारग्रहणविधिमाह -
नाइदूरमणासन्ने, नन्नेसिं चक्खफासओ ।
एगो चिट्ठिज्ज भत्तट्ठा, लंघित्ता तं नइक्कमे ॥३३॥ साधुर्गृहस्थगृहे नातिदूरं तिष्ठेत्, पूर्वसमागतापर भिक्षूणाम् निर्गमननिरोधसम्भवात्, आहारदूषणस्यादर्शनाच्च, पुनस्तथा 'अनासन्नस्तिष्ठेत्, आसन्ने न तिष्ठेदपरभिक्षूणामप्रीतिसंभवात् । पुनरन्येषां भिक्षुकापेक्षया गृहस्थानां चक्षुःस्पर्शतश्चक्षुःस्पर्शे न तिष्ठेत्, यथाऽन्ये भिक्षवो गृहस्थस्य चक्षुःस्पर्शे तिष्ठन्ति तथा न तिष्ठेदित्यर्थः । कथं तिष्ठेत्तदाह-एकान्तदेशे यथा गृहस्थ एवं न जानाति, अयं साधुरन्यभिक्षुनिर्गमनमिच्छति, एवमेकः पुराऽऽगतभिक्षुकोपरिद्वेषरहितो भक्तार्थमाहारार्थं साधुः *पूर्वमागतं तं भिक्षु लवयित्वा नातिक्रमेदुल्लङ्घ्य न प्रविशेदित्यर्थः ॥ ३३ ॥ पुनराहारग्रहणविधिमाह -
नाइ उच्चे व नीए वा, नासन्ने नाइ दूरओ।
फासुअं परकडं पिंडं, पडिगाहिज्ज संजए॥३४॥ अत्युच्चैः स्थाने मालादावाहारं न गृह्णीयात्, आहारस्याहारदातुर्वा पतनसम्भवात्, च पुनर्नीचैः स्थानेऽपि भूमिगृहादावाहारं न गृह्णीयात्तत्र चैषणाया असम्भवात् दायकस्य कष्टादिसंभवाद्वा, अथवात्युच्चैः सरसाहारलब्धेरहं लब्धिमानित्यभिमानरहितः, आहारेऽलब्धेऽहं दीनोऽस्मि मह्यं कोऽपि न ददातीति दीनबुद्धिरहित इति भावः । उच्चत्वनीचत्वरहितो नासन्नो-नातिनिकटवर्ती नातिदूरवर्ती, यथायोग्यस्थाने स्थितः प्रासुकं-निर्दूषणं नवकोटिविशुद्धं परकृतं-गृहस्थेनात्मार्थं कृतं पिण्डमाहारं संयतो-जितेन्द्रियः साधुः प्रतिगृह्णीयात् ॥ ३४॥ अथाहारकरणस्थानमाह
अप्पपाणेऽप्पबीयंमि, पडिच्छिन्नंमि संवुडे ।
समयं संजए भुंजे, जयं अप्परिसाडियं ॥ ३५ ॥ संयतः-साधुरेतादृशे स्थाने समकं-साधुभिः समं 'जयं' यतमानः सन् सुरसुरचवचवकसकसकुरडकुरडादिशब्दमकुर्वाणः, अपरिसाटितं-सिक्थुपातनेन रहितमाहारं भुञ्जीत । कीदृशे स्थाने ? अल्पप्राणे-अल्पा अविद्यमाना प्राणा यत्र तत् अल्पप्राणं तस्मिन् द्वीन्द्रियादिजीवरहिते, अवस्थित-आगन्तुकप्राणरहिते, पुनः कीदृशे स्थाने ? अल्पबीजे १ नासन्नं मु० ॥ * पूर्वमागतं भिv D. । लङ्घयित्वा तं नातिक्रमे L. ॥ २ उच्चैः मु० ॥