SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ विनयाध्ययनम् १] [१५ विगतभयाः- सप्तभयरहिता, बुद्धा-ज्ञाततत्वाः, एतादृशाः शिष्या आचार्यकृतमनुशासनं परुषमपि-कठोरमपि हितं मन्वते, मूढानां-मूर्खाणां-कुशिष्याणां क्षान्ति-क्षमाकरं शोधिकरमात्मशुद्धेरुत्पादकम् पुनः पदं-ज्ञानादिस्थानमेतादृशं गुरूणां शिक्षावचनं द्वेष्यंद्वेषहेतुकं भवति ॥ २९ ॥ आसणे उवचिट्ठिज्जा, अणुच्चे अकुए थिरे। अप्पुट्ठाई निरुट्ठाई, निसीइज्जप्पकुक्कुए ॥ ३० ॥ सुशिष्य एतादृशे आसने उपतिष्ठेत्, कीदृशे आसने ? तदाह-'अनुच्चे' द्रव्येण भावेनानुच्चे गुरोरासनाद्धीने, पुनः 'अकुच्चे चीत्कारादिशब्दरहिते, तादृशस्यासनस्य श्रृङ्गाराङ्गत्वात्, पुनः स्थिरे आसने-समपादे तिष्ठेत् । अथ स साधुरीदृशे आसने कीदृशः सन् तिष्ठेत्तदाह अल्पोत्थायी कार्ये सत्यप्यल्पमुत्तिष्ठतीत्येवंशीलोऽल्पोत्थायी मुहुर्मुहुरासनानोत्तिष्ठेत्, पुनः कीदृशः ? निरुत्थायी-निमित्तं विना नोत्तिष्ठेत्, स्थिरं तिष्ठेदित्यर्थः । पुनः पुनरुत्थानशीलस्य साधुत्वं न भवेत्, पुनः स साधुः कीदृशो भवेत् ? अल्पकुक्कुचो भवेत्, हस्त-पादशिरःप्रमुखशरीरावयवानधुन्वानो निश्चलस्तिष्ठेदित्यर्थः ॥ ३० ॥ चरणे विनयरूपामेषणामाह - कालेण णिक्खमे भिक्खू, कालेण य पडिक्कमे । अकालं च विवज्जित्ता, काले कालं समायरे ॥३१॥ काले-प्रस्तावे भिक्षुः-साधुनिष्क्रमेद्भिक्षार्थं निर्गच्छेत्, च पुनः काले एव प्रतिक्रमेदाहारं गृहीत्वा स्वस्थानाय पश्चादागच्छेत् । अकालमप्रस्तावं विशेषेण वर्जयित्वाक्रियाया असमयं त्यक्त्वा, काले-क्रियायोग्यप्रस्तावे एव कालं-तत्समययोग्यक्रियासमूह समाचरेत्कुर्यात् ॥३१॥ परिवाडीए न चिट्ठिज्जा, भिक्खू दत्तेसणं चरे। पडिरूवेण एसित्ता, मियं कालेण भक्खए ॥३२॥ भिक्षुः-साधुः परिपाट्यां-गृहस्थगृहे जीमनवारादौ भोजनस्थितपुरुषाणां पङ्क्तौ न तिष्ठेत्, तत्र भिक्षोरप्रीति-शंकादिदोषसम्भवात् । पुनर्भिक्षुः-साधुदत्ते दाने-गृहस्थेन दीयमाने आहारदाने एषणां चरेदाहारदोषविलोकनं कुर्यात्, न तु जिह्वालौल्येन सदोषाहारं गृह्णीयात् । तच्छुद्धमाहारं प्रतिरूपेण-सुविहितप्राचीनमुनीनां रूपेण, यथा पूर्वाचार्यस्थविरकल्पैः साधुभिः पात्रे आहारं निर्दोषं गृहीतम् तथा गृहीत्वा तदप्याहारं मितं-स्तोकं स्वकुक्षिपूर्तिमात्रं गृहीतव्यम्, अमितभोजने बहुदोषसम्भवात् । एवं विधिनाहारमानीय कालेन नमस्कारपूर्वकप्रत्याख्यानपारण-समयेन सिद्धान्तोक्तविधिना भक्षयेदाहारं कुर्यादित्यर्थः ॥ ३२॥ १ पुनरकचे मु०॥
SR No.022592
Book TitleUttaradhyayan Sutram Part 01
Original Sutra AuthorN/A
AuthorVajrasenvijay, Bhagyeshvijay
PublisherBhadrankar Prakashan
Publication Year2001
Total Pages350
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy