SearchBrowseAboutContactDonate
Page Preview
Page 23
Loading...
Download File
Download File
Page Text
________________ १४] [उत्तराध्ययनसूत्रे पुनः साधुः पृष्टः सन् सावधं-सपापवचनं न लपेन्न भाषेत, निरर्थकं वचनं च 'नालपेत्, न च मर्मकं-मर्मरूपं वाक्यं साधु यात्, म्रियतेऽनेनेति मर्म लोक-राजविरुद्धादिकम्, अथवा मर्मणि गच्छतीति मर्मगम्, यस्मिन् कर्मणि प्रकटीभूते सति मनुष्यस्य मरणमेव स्यात्तदपि वाक्यमात्मार्थं वाथवा परार्थं वाथवोभयार्थमन्तरेण प्रयोजनं विनापि च न वदेदित्यर्थः ॥२५॥ स्वगतदोषत्यागमुक्त्वोपाधिकृतदोषत्यागमाह - समरेसु अगारेसु, संधीसु य महापहे ॥ एगो एगथिए सद्धि, नेव चिट्टे न संलवे ॥ २६ ॥ एतेषु स्थानेष्वेक-एकाकी सन् साधुरेकाकिन्या स्त्रिया सार्धं न तिष्ठेत्, न चैकाकी साधुरेकया कामिन्या सह संलपेत् । तानि कानि स्थानानि ? समरेषु-गर्दभकुटीरेषु लोहकारशालासु वा, तथाऽगारेषु-शून्यगृहेषु, तथा सन्धिषु-गृहद्वयान्तरालेषु, तथा 'महापथेषु, राजमार्गेषु अत्रैकस्य-ग्रहणमत्यन्तदुष्टत्वप्रतिपादनार्थम् ॥ २६ ॥अथ गुरुभिः शिक्षार्थं शिक्षमाणः शिष्यः किं कुर्यादित्याह - जं मे बुद्धाणुसासंति, सीएण फरुसेण वा।। मम लाभुत्तिपेहाए, पयओ तं पडिस्सुणे ॥२७॥ बुद्धा-गुरवो यन्मे-मम शीतेन-शीतलवचनेन वाऽथवा परुषेण-कठोर वचनेनाऽनुशासति शिक्षा प्रयच्छन्ति तत् 'मम लाभुत्ति' मम लाभाय अप्राप्तवस्तुप्राप्तये भविष्यतीति प्रेक्षयेति बुद्ध्या प्रयत:- प्रयत्नवान् सन् शिष्यो गुरुवचनं प्रतिश्रृणुयादङ्गीकुर्यात्, न च गुरूणां कठोरवाक्यात् क्रोधं कुर्यात् ॥ २७ ॥ अणुसासणमोवायं, दुक्कडस्स य चोयणं । । हियं तं मन्नई पन्नो, वेसं होइ असाहुणो ॥ २८ ॥ 'पन्नत्ति' प्रज्ञावान्-प्राज्ञः शिष्य उपाये मृदु-परुषभाषणादौ भवमौपायं गुरुशिक्षावाक्यम्, तथा च पुनर्दुष्कृतस्य प्रेरणं हा किमिदं दुष्टं कर्म कृतमित्यादिरूपं तद्वचनं हितमिहलोक-परलोकसुखदं मनुते । 'असाहुणो' असाधो:- कुशिष्यस्य तद् गुरूणां परुषवाक्यं द्वेष्यं-द्वेषोत्पादकं भवति ॥ २८ ॥ इसमेवार्थं पुनर्दृढीकरोति - हियं विगयभया बुद्धा, फरुसं पि अणुसासणं । वेसं तं होइ मूढाणं, खंतिसोहिकरं पयं ॥ २९ ॥ १ नालपेत मु०॥ २ महापथे राजमार्गे मु०॥
SR No.022592
Book TitleUttaradhyayan Sutram Part 01
Original Sutra AuthorN/A
AuthorVajrasenvijay, Bhagyeshvijay
PublisherBhadrankar Prakashan
Publication Year2001
Total Pages350
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy