________________
विनयाध्ययनम् १]
[१३ पुनर्विनयशिक्षां वदति -
आलवंते लवंते वा, न निसीइज्ज कयाइवि ॥
चइऊण आसणं धीरो, जओ 'जत्तं पडिस्सुणे ॥२१॥ धीरो-बुद्धिमान् यतो-यत्नवान् सन् शिष्यो यद्विधेयं कार्यं गुरुभिरुपदिष्टं तत्कार्य प्रतिश्रृणुयादङ्गीकुर्यात् ।पूर्वं गुरावालपति सति-इषद्वदति सत्यथवा गुरौलपति सति-वारंवार कथयति सति सुशिष्यो न निषीदेत्, गुरुणा कार्ये उक्ते सत्यासनं-स्वस्थानं त्यक्त्वा धीरोधैर्यवान् यत्नेनैकाग्रचित्तेन यद् गुरुणा कार्यमुक्तं भवेत्तत्कार्यमङ्गीकुर्यादित्यर्थः ॥२१॥
आसणगओ न पुच्छिज्जा, नेव सिज्जागओ कया ॥ .. आगम्मुक्कुडूओ संतो, पुच्छिज्जा पंजलीउडो ॥ २२ ॥
आसने गतः-स्वस्थाने स्थित एव सुशिष्यो गुरुंप्रति सूत्रार्थादिकं न पृच्छेत्तथा पुनः शय्यां गतो रोगाद्युपद्रवं विना कदापि शयानः सूत्रादिकं न पृच्छेत्तर्हि किं कुर्यादित्याहगुरोः समीपमागत्योत्कुटुको-मुक्तासनः कारणतः पादपुञ्छनादिस्थः सन् शान्तो वा प्राञ्जलिर्बद्धाञ्जलिः सूत्रार्थादिकं पृच्छेत् ॥ २२ ॥
एवं विणयजुत्तस्स, सुत्तं अत्थं च तदुभयं ॥
पुच्छमाणस्स सीसस्स, वागरिज्ज जहा सुयं ॥ २३ ॥ आचार्य एवममुना प्रकारेण विनययुक्तस्य शिष्यस्य सूत्रमर्थं च तदुभयं-सूत्रार्थ पृच्छमानस्योभयं पूर्वोक्तं सूत्रार्थं व्याकुर्याद्-वदेत्, विनयवतः शिष्यस्याग्रे यथाश्रुतंगुरुपरंपरातो यथाज्ञातं सूत्रार्थं गुरुः कथयेदित्यर्थः ॥ २३ ॥ ..
मुसं परिहरे भिक्खू, न य ओहारिणिं वए ॥
भासादोसं परिहरे, मायं च वज्जए सया ॥२४॥ भिक्षुः साधुर्मषां भाषां परिहरेत्, च पुनः ओहारिणिं' अवधारिणी-निश्चयात्मिकामेवमेवेतिरूपां भाषां न बुवीत, भाषादोषं-सावधानुमोदनादिकं परिहरेत्, च पुनर्मायां वर्जयेत्, एकस्या मायाया 'ग्रहणेनान्येषामपि क्रोधमानलोभादीनां ग्रहणम्, सर्वान्, कषायान् परिवर्जयेत्, कषायाणां वर्जनान्मृषाभाषाया वर्जनं स्यादेव कारणाभावे कार्याभावः ॥ २४ ॥
न लविज्ज पुट्ठो सावज्जं, न निटुंन मम्मयं ॥
अप्पणट्ठा परट्ठा वा, उभयस्संतरेण वा ॥ २५ ॥ १ जुत्तं मु० ॥ २ ग्रहणेनान्येऽपि D. L. ॥