________________
१२]
[उत्तराध्ययनसूत्रे अथासनस्य विधिमाह
न पक्खओ न पुरओ, नेव किच्चाण पिठ्ठओ॥
न जुंजे ऊरुणा ऊरूं, सयणे नो पडिस्सुणे ॥१८॥ विनीतः साधुः पक्षतो न निषीदेत्यङ्क्तिसमावेशात् गुरुणा सह समानत्वं स्यात् । तस्माद् गुरोर्बाहुना सह बाहुं कृत्वा न तिष्ठेत् । पुनर्गुरूणां पुरतोऽग्रतोऽपि न निषीदेत्, वन्दनां कुर्वतः पुरुषस्य गुरूणां मुखावलोकनं न स्यात्, कृत्यानामाचार्याणां पृष्टतोऽपिनस्थातव्यम्, गुरुशिष्ययोरुभयोरपि' मुखादर्शने तथाविधरसवत्त्वाभावः स्यात् । न च पुनर्गुरूणामूरुणाजङ्घया सहोरु-जङ्घा युञ्जेत्- सङ्घट्टयेदत्यासङ्गादविनयः स्यात् । पुनः शिष्यो गुरूणां वचनं शयने-शय्यायांशयानः सन्नासीनो वा न प्रतिश्रृणुयात्, गुरुभिरुक्ते सति शय्यायां स्थितेनैव शिष्येणैवं कुर्म इति न वक्तव्यम्, किन्तु गुरूणां समीपे आगत्य वचनं श्रोतव्यमित्यर्थः॥१८॥ पुनरासनविधिमाह -
नेव पल्लत्थियं कुज्जा, पक्खपिंडिं च संजए ॥
पाए पसारिए वावि, न चिट्ठे गुरुणंतिए ॥ १९ ॥ शिष्यो गुरोः समीपे पर्यस्तिकां नैव कुर्यात्, जङ्घोपरि पादमोचनं न विदधीत, च पुनः पक्षपिण्डं जानुजनोपरि वस्त्रवेष्टनात्मिकां योगपट्टाश्रयिकामथवा बाहुद्वयेनैव कायबन्धात्मिकां गुरूणां पार्श्वे न कुर्यात्, वाशब्दः पुनरर्थे , पुनर्गुरूणामन्तिके सन्मुखं वा पादौ प्रसार्य न तिष्ठेत् ॥१९॥
आयरिएहिं वाहित्तो, तुसिणीओ न कयाइवि ।
पसायपेही नियागठ्ठी, उवचिढे गुरुणं सया ॥२०॥ पुनः सुशिष्य आचार्यैर्गुरुभिर्व्याहृत आहूतः सन् कदाचिदपि तूष्णीको न भवेत्, अत्र 'कदापिशब्दो ग्लानाद्यवस्थायामपि गुरुभिरामन्त्रितः शक्तौ सत्यां मौनं कृत्वा श्रुतमश्रुतं न कुर्यादित्यर्थः । कथंभूतः सुशिष्यः ? प्रसादप्रेक्षी, प्रसाद-गुरूणां स्नेहं प्रेक्षितुं शीलं यस्य सः प्रसादप्रेक्षी, यतः- अन्येषु शिष्येषु सत्सु गुरवो मां शब्दयन्ति, ततो मम महद्भाग्यमिति मनसि चिन्तयति । पुनः कथंभूतः सुशिष्यः? नियागट्ठी' मोक्षार्थी, विनयस्य मोक्षकारणत्वात्। सुशिष्योऽनेन विधिना गुरुं सदोपतिष्ठेत्सेवेत ॥२०॥ १ .रपि रसवत्ताभाव: D.L.॥ २ कदापिशब्दात् मु०॥