________________
विनयाध्ययनम् १]
[११ "सह कलेवर खेदमचिंतयन् । स्ववशता हि पुनस्तव दुर्लभा ॥ बहुतरं च सहिष्यसि जीव रे । 'परवशे न च तत्र गुणोऽस्ति ते ॥ १ ॥" इत्यादि शिक्षयात्मा वशीकर्तव्यः अत्र सेचनकदृष्टान्त:
एकस्यामटव्यां महत्तरं गजयूथं वसति, यूथाधिपतिर्जातं कलभकं विनाशयति । अन्यदा तत्रैका करिणी सगर्भिणी जाता एवं चिन्तयति, यदा कथमपि मे गजबालको जायते तदानेन विनाश्यते , ततः सा करिणी यूथादपसरति यावता यूथाधिपतिना यूथमवलोक्यते तावता द्वितीये तृतीये दिवसे सा यूथमध्ये गत्वा मिलति । एवं कुर्वत्या तयाऽन्यदा ऋष्याश्रमपदं दृष्टम्, सा तत्रालीना गुप्तस्थाने प्रसूता, गजकलभो जातः, स गजः कुमारैः सहारामान् सिञ्चति, ततस्तापसैस्तस्य सेचनक इति नाम कृतम्, स वयस्थो जातः, भ्रमन्तं यूथाधिपतिं दृष्ट्वा नवोदितबलः स मारितवान्, स्वयं यूथाधिपतिर्जातः, तापसाश्रममपि समूलं विनाशितवान्, 'मन्मातेवान्या करिण्यत्र प्रच्छन्नं मा तिष्ठत्विति विचारितवांश्च । ततस्ते रुष्टा ऋषयः पुष्पफलपूर्णहस्ताः श्रेणिकस्य राज्ञः पार्श्वे गताः, कथितं च तैः सर्वलक्षणसम्पूर्णो हस्ती सेचनकनामा वने तिष्ठति, ततः श्रेणिकेन स्वयं तद्वने गत्वा महता बलेन गृहीत्वानीय स आलानस्तम्भे बद्धः, ऋषिभिस्तत्रागत्येति निर्भत्सितः, हे गजराज ! क्व ते शौण्डीर्यं गतम् ? प्राप्तं त्वयाऽस्मदविनयफलमिति श्रुत्वा स गजः प्रकामं रुष्टः स्तम्भं भक्त्वा तेषां पृष्टे धावितः, ते सर्वे हतप्रहताः कृताः, प्राप्तोऽटव्यां, भग्नाः पुनरपि तेषामाश्रयाः, पुनः श्रेणिकः तद्गजग्रहणाय गतः, पूर्वभवसङ्गतदेवेन गजस्योक्तम्, 'हे वत्स ! परेभ्यो दमनात्स्वयंदमनं वरमिति',तद्वचः श्रुत्वा स्वयमागत्यालानस्तम्भमाश्रितः, यथा ह्यस्य स्वयं दमनाद् गुणो जातस्तथाऽन्येषामिति ॥१६॥ अथ पुनर्विनयशिक्षामाह -
पडिणीयं च बुद्धाणं, वाया अदुवकम्मुणा ॥
आवी वा जइवा रहस्से, नेव कुज्जा कयाइवि ॥१७॥ च पुनर्बुद्धानामाचार्याणां प्रत्यनीकं-शत्रुभावं वाचा-वचनेन कृत्वा न कुर्यात्, त्वं किं जानासीत्यादिरूपेण निर्भर्त्सनां न कुर्यादथवा कर्मणा-क्रियया संस्तारकोल्लंघनेन चरणादिना संघट्टनेनाविनयं न कुर्यात्तदपि आवी' इति लोकसमक्षं यदि वा रहसि-एकान्ते क्रदापि सुशिष्यो गुरुभिः सह शत्रुभावं न कुर्यादित्यर्थः ।
"शत्रोरपि गुणा ग्राह्या दोषावाच्या गुरोरपि ॥" [ ] इति कुमतिनिरासार्थं कदापि नैव शब्दस्य ग्रहणं ॥ १७ ॥ १ परवशो मु० ॥ २ मन्मातेवान्यायकारिण्यत्र प्रच्छन्नं प्रतिष्टत्विति मु०॥