________________
१०]
[उत्तराध्ययनसूत्रे वालो सरस्स भंगं, कंटो लगइ गलंमि दारुं च । तालुंमि विधइ अली, वंजणमज्झमि भुजंतो ॥ ३ ॥ जीवाण कुंथुमाइण, घायणं भायणधोअणाईसु । एमाइ रयणिभोअण - दोसे को साहिउं तरइ ॥ ४ ॥
[सम्बोध प्रकरण गाथा ११९८-९६-९७-९९] अतोऽस्मिन् व्रते दृढप्रयत्नैर्भवितव्यमिति भणित्वा गताः साधवः । तावपि चौरनायको सपरिवारौ कियन्मार्गमनुगम्य निवृत्तौ, मुनिसेवया कृतार्थत्वं मन्यमानौ तिष्ठतः । अन्यदा ताभ्यां धाटीगताभ्यां बहुगोमहिषमानीतम्, अंतरालमार्गे तत्परिवारपुरुषैः कैश्चिन्महिषो व्यापादितस्तद्भोजनाय सपरिवारौ तौ तत्र स्थितौ । केचित्परिवारपुरुषा मद्यानयनार्थं ग्राममध्ये गताः, महिषव्यापादकैः परस्परमिति विमृष्टम्, मांसाढ़े विषं प्रक्षिप्य मध्ये गतेभ्यो दीयते, तदा बहुगोमहिषं भागे आगच्छति आत्मनामिति विमृश्य तैस्तथैव कृतम् । भवितव्यतावशेन ग्राममध्ये गतैरपि तथैव संचिन्त्य मद्यार्द्ध विषं प्रक्षिप्तम्, तत्रागताः परस्परं मिलिताः कूटचित्ताः सर्वेऽपि, तौ चौरनायकौ तु निःकुटौ स्तः, तावता सूर्योऽस्तं गतः, तौ चौरनायको रात्रिभोजननियमभङ्गभयेन न भुक्तौ, अन्ये परस्परदत्तविषसंयुक्तमद्यमांसभक्षणेन मृताः कुगतिं गताः, तौ भ्रातरौ इहलोके परलोके च सुखिनौ जातौ रात्रिभोजनव्रतग्रहणेन जिह्वेन्द्रियदमनात् । इति चौरनायकदृष्टान्तः ॥ १५ ॥ अथ किं चिंतयन्नात्मानं दमयेदित्याह
वरं मे अप्पादंतो, संजमेण तवेण य ॥
माहं परेहिं दम्मंतो, बंधणेहिं वहेहि य ॥ १६ ॥ संयमेन च पुनस्तपसा मया आत्मा दान्तो-वशीकृतो वरं भव्यः, अत्रात्माशब्देन देह आत्मन आधारभूतत्वात्, दान्तोऽसंयममार्गानिषिद्धो भव्यः संयमेन सप्तदशविधेन, तथा तपसा द्वादशविधेनात्मा पञ्चेन्द्रियरूपः साधुमार्गे नेतव्यः, यथा दुर्विनीतोऽश्वो वृषभो वोन्मार्गात् प्राजनकेन-नोदनकाष्ठेन मार्गे नीयते, तथायमात्मापीत्यर्थः । पुनर्मनस्येवं चिन्तयेदहं परैरन्यलोकैर्बन्धनैः श्रृङ्खलादिभिश्च पुनर्बन्धैर्लकुट्यङ्कुशचपेटाप्राजनकादिभिर्दमितो मा भवेयम् यदान्ये मम ताडनातर्जनादिभिर्दमनं करिष्यन्ति तदा मम श्रेयो नास्ति, यदुक्तं१ इतोऽग्रे मु० प्रतौ एवं श्लोकःउलूक-काक-मार्जार-गृध्र-शम्बर-शूकराः । अहि-वृश्चिक-गोधाश्च, जायन्ते रात्रिभोजनात् ॥१॥
[योगशास्त्र ३/६७] २ स्वात्मा मु०॥