________________
विनयाध्ययनम् १ ]
आत्मदमने दृष्टान्तो -
यथा- एकस्यां पल्ल्यां द्वौ भ्रातरौ तस्करनायकौ स्तः, सार्थेन सह गच्छतां साधूनां वर्षाऋतुः 'प्राप्तः, न च तत्र कोऽपि साधुभक्तोऽस्ति, तेन साधवस्तस्करनायकयोः समीपे गताः, साधुदर्शनेन तौ चोरनायकौ आनन्दितौ, तान् प्रणम्य कथयतः किं प्रयोजनं भवताम् ? साधुभिर्भणितमस्माकं वर्षासु विहर्तुं न कल्पते, ततो वर्षावासप्रायोग्यमुपाश्रयं प्रार्थयामः, ताभ्यां च सहर्षं साधूनामुपाश्रयो दत्तस्तत्र विश्वस्तास्तिष्ठन्ति साधवः, चौरनायकाभ्यां भणितमस्माकं गृहेषु सम्पूर्णं भक्तादि गृहीतव्यम्, साधुभिर्भणितं न कल्पते एकस्मिन् गृहे पिण्डग्रहणं साधूनाम्, ततः सर्वेषूचितगृहेषु विहरिष्यामः, उपाश्रयदानेनैव भवतां महापुण्य-सम्बन्धो जातः, उक्तं च -
[ ९
"*जो देइ उवस्सयं, मुनिवराण तवनियमजोगजुत्ताणं । तेणं दिन्ना वत्थन्नपाणसयणासणविगप्पा ॥ १ ॥ तवसंजमसज्झाओ, नाणब्भासो जणोवयारो य । जो साहूणामवगाह - कारी सिज्झायरो तस्स ॥ २॥ पावर सुरनरिद्धी- सुकुलप्पत्ती य भोगसामिद्धी । नित्थरइ भवमगारी, सिज्जादाणेण साहूणं ॥ 11
इदं साधुवचः श्रुत्वा तौ अत्यन्तं परितुष्टौ तेषां साधूनामुपद्रवं रक्षतो विश्रामणादिभक्ति च कुरुतः, सुखेन साधूनां वर्षाकालोऽतिक्रान्तः, गच्छद्भिः साधुभिस्तयोश्चौरनायकयोरन्यव्रतग्रहणाऽसमर्थयोर्निशाभोजननियमो दत्तस्तयोरेवमुपदिष्टम् ।
+ "मालिंति महीयलं जामिणीसु रयणीअरा समंतेण । ते विच्छलंति य फुडं, राइए भुंजमाणाओ ॥ १ ॥ मेहं पिवीलिआओ, हणंति वमणं च मच्छिया कुणइ । जूआ जलोयरं तह, कोलिओ कुट्ठरोगं च ॥ २ ॥
१ प्राप्ता मु० ॥ २ साधुदर्शनेन तौ चौरनायकौ आनन्दितौ मु० नास्ति ॥
* यो ददाति उपाश्रयं, यतिवरेभ्यस्तपोनियमयोगयुक्तेभ्यः ।
तेन दत्ता वस्त्रा- उन्न-पान - शयना - ऽऽसन विकल्पाः ॥ १ ॥
तप:- संयम - स्वाध्यायो, ज्ञानाभ्यासो जनोपकारश्च । यः साधूनामुपग्रहकारी शय्यातरस्तस्य ॥ २ ॥ प्राप्नोति सुरनरुद्धः सुकुलोत्पत्तिं च भोगसमृद्धिम् । निस्तरति भवमगारी शय्यादानेन साधुभ्यः ॥ ३ ॥ + मालयन्ति महीतलं यामिनीषु रजनीचराः समन्तात् । ते विट्टालयन्ति स्फुटं रात्रौ भुञ्जानांस्तु ॥ १ ॥ पिपीलिकान्ति वमनञ्च मक्षिका करोति । यूका जलोदरं तथा, लूता कुष्ठरोगञ्च ॥ २ ॥ वालः स्वरस्य भङ्गं कण्टकः लगति गले दारु च । तालौ विध्यति अलिः व्यञ्जनमध्ये भुञ्जयमानः ॥ ३ ॥ जीवानां कुन्थ्वादीनां घातनं भाजनधौतनादिषु ।
"
एवमादिरजनी भोजनदोषान्, कः कथयितुं शक्नोति ॥ ४ ॥