________________
८।
[उत्तराध्ययनसूत्रे हन्यन्ते', एतद्वचः श्रुत्वा कुलपुत्रेण जननीमुखमवलोकितम्, जनन्या च सत्त्वमवलम्ब्योत्पन्नकरुणया भणितम्, 'हे पुत्र शरणागता न हन्यन्ते' । यतः
* "सरणागयाण विस्संभियाण पणयाण वसणपत्ताणं ।
रोगियअजुंगमाणं, सप्पुरिसा नेव. पहरंति" ॥ १ ॥ ....... तेन 'कुलपुत्रकेण भणितं कथं रोषं सफलीकरोमि ? जनन्योक्तं वत्स ! 'सर्वत्र न रोषः सफलीक्रियते,'जननीवचनात् स तेन मुक्तः, तयोश्चरणेषु पतित्वा क्षामयित्वा चापराधं स गतः । एवं क्रोधमसत्यं कुर्यात् । धारिज्जा पियमप्पियं'।
एतत्पदकथा -
यथा - वीतभयपत्तने एकदा महदशिवमुत्पन्नम् तन्निशम्य त्रयो मान्त्रिकास्तत्रायाताः, राज्ञः पुरस्तैः कथितं वयमशिवमुपशमयिष्यामः, राज्ञा भणितं-'केन प्रकारेण' ? तेषां मध्ये एकेनोक्तं 'मन्त्रसिद्धं ममैकं भूतमस्ति, तदत्यवं रूपवद् गोपुररथ्यादिषु भ्रमद्यः पश्यति स म्रियते, यस्तदृष्ट्वाऽधोमुखः स्यात्स सर्वरोगैर्मुच्यते' । राज्ञा भणितमलमनेनातिरोषणेन भूतेन । अथ द्वितीयमान्त्रिकेणोक्तं 'मम भूतं महाकायं लम्बोदरं विस्तीर्णकुक्षि पञ्चशीर्षमेकपादं विकृतरूपमट्टहासं कुर्वदृष्ट्वा यो हसति तस्य शिरः सप्तधा स्फुटति, यस्तु तद्भूतं धूप-पुष्प-स्तुत्यादिभिः पूजयति स सर्वरौगैर्मुच्यते'।राज्ञोक्तमनेनापि भूतेन सृतम् । अथ तृतीयेन मान्त्रिकेणोक्तम् ममाप्येवंविधंभूतमस्ति, परंप्रियाप्रियकारिणंजनं दर्शनादेव रोगेभ्यो मोचयति' । राज्ञोक्तमेवं भवतु । तथा कृते तन्नगराशिवमुपशान्तम् । ततो नृपादिजनैः स तृतीयमान्त्रिकः पूजितः । एवं साधुरपि पूजां निन्दां प्रियाप्रियं सहेत । उक्तं च
"लाभालाभे सुखे दु:खे, जीविते मरणे तथा ।
स्तुतिनिन्दाविधाने च, साधवः समचेतसः" ॥ १ ॥ 'स्तुतिनिन्दादौ न राग-द्वेषवान् साधुर्भवतीति ॥१४॥ क्रोधाद्यसत्यताकरणं चात्मदमने एव स्यादतस्तदुपदेशं तत्फलं चाह -
अप्पा चेव दमेयव्वो, अप्पा हु खलु दुइमो ॥
अप्पा दंतो सुही होइ, अस्सिं लोए परत्थ य ॥१५॥ आत्मा एव दमितव्यो - वशीकर्तव्यः, हु इति निश्चयेन खलु यस्मात्कारणादात्मा दुर्दमो वर्तते, आत्मानं दमन् जीवः सुखीभवति । अस्मिन् लोके च पुनः परत्र-परभवे च सुखीभवति ॥१५॥ * शरणागतानां विश्रब्धानां प्रणतानां व्यसनप्राप्तानाम् । रोगिताजङ्गमानां सत्पुरुषा नैव प्रहरन्ति ॥१॥ १ पुत्रेण ॥२ तनिशम्य L, नास्ति ॥३ स्तुतिनिन्दादावनगारोऽद्वेषवान् मु०॥