SearchBrowseAboutContactDonate
Page Preview
Page 16
Loading...
Download File
Download File
Page Text
________________ विनयाध्ययनम् १] [७ अत्र चण्डरुद्राचार्यकथा - उज्जयिन्यां चण्डरुदसूरिः समायातः, स रोषणप्रकृतिः साधुभ्यः पृथगेकान्तस्थाने आसाञ्चक्रे, मा भूत्कोपोत्पत्तिरिति चित्ते विचारयति । इतश्चेभ्यसुतः कोऽपि नवपरिणीतः 'सुहृत्परिवृतस्तत्रागत्य साधून् वन्दते, कैश्चित्तन्मित्रैर्हास्येन प्रोक्तममुं प्रव्राजयत, साधुभिर्वरमित्यभिधाय गुरुर्दर्शितः, तेऽपि गुरुसमीपे गताः, तथैव तैरुक्तम्, गुरुभिर्भूतिमानयेति प्रोक्ते तेन नवपरिणीतेन हास्यादेव स्वयं भूतिरानीता, गुरुभिर्बलादेव गृहीत्वा तल्लोचः कृतः सुहृदः खिन्नास्तदा नष्टाः, तस्य तु कृतलोचस्य लघुकर्मतयाऽतः परं मम प्रव्रज्यैवास्त्विति परिणामः सम्पन्नः, ततस्तेनोक्तं केलिः सत्यीभूतोऽथान्यत्र गम्यते, गुरुराह अहो शिष्य ! साम्प्रतं रात्रिर्जाता, अहं रात्रौ न पश्यामि, तेन स्वस्कन्थे गुरुरारोपितः, उच्चनीचप्रदेशे मार्गे वहता तेन गुरोः खेद उत्पादितः, खिन्नेन तेन गुरुणाऽस्य शिरसि दण्डप्रहारा दत्ताः, असौ मनस्येवं विचारयत्यहो महात्मायं मयेदृशीमवस्थां प्रापित इति सम्यग्भावयतस्तस्य केवलज्ञानमुत्पन्नम्, केवलज्ञानबलेन समप्रदेश एव वहन् गुरुभिरेष उक्तः, 'मारिः सार' इति कीदृशः समो वहन्नसि ? तेनोक्तं 'युष्मत्प्रसादान्मे समं वहनम्' ।गुरुभिरुक्तं 'किम् अरे ज्ञानं समुत्पन्नं तव' ? तेनोक्तं 'ज्ञानमेव' गुरुभिरुक्तं 'प्रतिपात्यप्रतिपाति ?' तेनोक्तमप्रतिपाति । गुरवस्तु 'हा ! मया केवली आशातितः', इत्युक्त्वा तच्छिरसि दण्डप्रहारोद्भूतं रुधिरप्रवाहं पश्यन्तः पुनः पुनस्तत् क्षामणं कुर्वन्तः केवलज्ञानमापुरिति विनीतशिष्यैरीदृशैर्भाव्यम् । इति चण्डरुद्राचार्यस्यकथा ॥१३॥ नापुट्ठो वागरे किंचि, पुछो वा नालियं वए ॥ कोहं असच्चं कुव्विज्जा, धारिज्जा पियमप्पियं ॥१४॥ सुविनीतशिष्योऽपृष्टः सन्न किञ्चिद्व्याकुर्यात्-व्यागृणीयात्, न किञ्चिदपृष्टो वदेत्, अथवाऽपृष्टः अल्पं पृष्टोऽपृष्टः सन् विनीतः किमपि न व्यागृणीयात्, अपृष्टोऽल्पमपि न ब्रूयादिति भावः । अथवा पृष्टः सन्नलीकं न वदेत् । पुनः क्रोधमसत्यं कुर्यात्, गुरुभिनिर्भत्सितः कदाचित्सक्रोधः स्यात्तदापि क्रोधं विफलं कुर्यात्, अप्रियमपि गुरुवचनं प्रियमिवात्मनो हितमिव स्वमनसि धारयेत् । अथ क्रोधस्यासत्यकरणे उदाहरणं - - यथा - कस्यचित्कुलपुत्रस्य भ्राता वैरिणा व्यापादितः अन्यदा कुलपुत्रो जनन्या भणितः, 'हे पुत्र ! त्वद्भातृघातकं वैरिणं घातय ।' ततः स वैरी तेन कुलपुत्रेण शीघ्रं निजबलाज्जीवग्राहं गृहीत्वा जननीसमीपे आनीतो भणितश्चारे भ्रातृघातक ! अनेन खड्गेन त्वामहं क्व हन्मि ? तेनाप्युद्गामितं प्रचण्डं खड्गं दृष्ट्वा भयभीतेन भणितम्, 'यत्र शरणागता १ परिकरतः L. ॥२ शिष्येण ॥३ 'भूत L. ॥ ४ पश्यत: L. ॥
SR No.022592
Book TitleUttaradhyayan Sutram Part 01
Original Sutra AuthorN/A
AuthorVajrasenvijay, Bhagyeshvijay
PublisherBhadrankar Prakashan
Publication Year2001
Total Pages350
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy