________________
[ उत्तराध्ययनसूत्रे त्वं न आलपेर्मा बूयाः, बहुभाषणात् बहवो दोषा भवन्ति, च पुनः काले प्रथमपौरुषीसमये अधीत्याध्ययनं कृत्वा, तत एकक-एकाकी सन्ध्यायेदधीतमध्ययनं भावान् चिन्तयेत्, एको भावतो द्रव्यतश्च,भावतो-रागद्वेषरहितः, द्रव्यतः पशुपण्डकादिरहितोपाश्रये स्थितः॥१०॥
आहच्च चंडालियं कट्ट, न निण्हुविज्ज कयाइवि.॥ कडं कडित्ति भासिज्जा, अकंड नो कडित्ति य ॥११॥
आहत्य-कदाचित्क्रोधादिकषायवशादलीकं दुष्कृतं कृत्वा विनीतः साधुर्गुरूणामग्रतो न निह्नवीत, कृतस्य दुष्कृतस्यापलपन-गोपनं न विधेयम्, कृतं कार्यं कृतमेव भाषेत, अकृतं कार्यं कृतं न भाषेत, अयं परमार्थ:-गुरूणां पुरतः सुशिष्येण सत्यवादिना भाव्यम् ॥११॥ अथ विनीताविनीतयोदृष्टान्तमाह -
मा गलियस्सेव कसं, वयणमिच्छे पुणो पुणो ॥
कसं व दट्ठमाइन्ने, पावगं परिवज्जए ॥ १२ ॥ विनीतः साधुराकीर्ण इव सुविनीताश्व इव गुरोर्वचनं शिक्षारूपं करणयोग्यस्य कार्यस्य प्रवृत्तिसूचकम्, करणायोग्यस्य कार्यस्य निवृत्तिसूचकं च मा इच्छेत्, पुनः पुनर्न इच्छेत् किन्तु एकवारं ज्ञापितं सत्सर्वं स्वकार्यं गुरोश्चित्तं च जानीते, 'कसं' - प्राजनकं दृष्ट्वा, इव-यथा गल्यश्वो-दुर्विनीततुरगोऽश्ववारस्य प्राजनकमिच्छेत्, तथा विनीतो वचनतर्जनं नेच्छेत्तथा सुविनीतशिष्य आचार्यस्याकारमिङ्गितं ज्ञात्वा पापानुष्ठानं वर्जयेदित्यर्थः ॥१२॥
अथ पुनर्विनीताविनीतयोराचारमाहअणासवा थूलवया कुसीला, मिउंपि चंडं पकरेंति सीसा ॥ चित्ताणुया लहु दक्खोववेया, पसायए ते हु दुरासयंपि ॥ १३ ॥
पूर्वार्धन दुविनीतशिष्याणामाचारं वदति, एतादृशाः शिष्या मृदुमप्याचार्य-सरलमपि गुरुं चण्डं-कोपसहितं कुर्वति, एतादृशाः कीदृशाः ? अनाश्रवा गुरुवचनेऽस्थिताः, आश्रव वचने स्थित'[अनेकार्थ सं. ३/६८७] इति हैमः, न आश्रवा अनाश्रवाः, पुनर्ये स्थूलवचसः स्थूलमनिपुणं वचो येषां ते स्थूलवचसोऽविचार्यभाषिणः, पुनः कुशीलाः ।अथोत्तरार्द्धन विनीतस्याचारं वदति-चित्तानुगा:-आचार्यचित्तानुगामिनः, पुनर्लघु-शीघ्रं दाक्ष्यं-चातुर्यं तेनोपपेता लघुदाक्ष्योपपेताः, त्वरितं चातुर्यसहिता एतादृशाः शिष्या दुराशयं-क्रूरमपि सक्रोधमपि गुरुं प्रसादयेयुः- प्रसन्नं कुर्युः।