________________
विनयाध्ययनम् १]
[५ पूर्वगाथायां शुनी पूतिकर्णीति स्त्रीलिङ्गनिर्देशः कृतः इदानीं शुभ इति लिङ्गव्यत्ययः प्राकृतत्वात् ॥६॥
तम्हा विणयमेसिज्जा, सीलं पडिलभेज्जए॥
बुद्धपुत्ते नियागट्ठी, न निक्कसिज्जइ कण्हुई ॥७॥ तस्मात्कारणात् बुद्धपुत्रो-बुद्धानामाचार्याणां पुत्र इव पुत्रो बुद्धपुत्रः आचार्याणां शिष्यः, पुनर्नियोगो-मोक्षस्तमर्थयतीति नियोगार्थी, एतादृशः साधु-विनयमेषयेद्विनयं कुर्यात्, यतो विनयाच्छीलं-सम्यगाचारं प्रतिलभेत स विनयवान्-शीलवान् ‘कण्हुई' इति कस्मादपि स्थानान्न निष्काश्यते' सर्वत्राप्याद्रियते, अयं परमार्थः विनयवान् सर्वत्र सादरो भवति ॥७॥
निसंते सियाऽमुहरी, बुद्धाणं अंतिए सया ॥
अट्ठजुत्ताणि सिक्खिज्जा, निरट्ठाणि उ वज्जए ॥८॥ अथ विनयपरिपाटी दर्शयति-नितरामतिशयेन शान्तो निशान्तः क्रोधरहितः साधुः, सियाशब्देन स्यात्-भवेत्, साधुना क्षमावता भाव्यम्, पुनः सुशिष्योऽमुखरी अवाचालः स्यात् पुनर्बुद्धानामाचार्याणां ज्ञाततत्वानामन्तिके-समीपे अर्थयुक्तानि हेयोपादेयसूचकानि सिद्धान्तवाक्यानि शिक्षेत । तु पुनर्निरर्थकानि-निष्प्रयोजनानि धर्मरहितानि स्त्रीलक्षणादिसूचकानि 'कोकवात्स्यायनादीनि वर्जयेत् ॥८॥
अणुसासिओ न कुप्पिज्जा, खंतिं सेविज्ज पंडिए ॥
खुद्देहिं सह संसग्गि, हासं कीडं च वज्जए ॥ ९ ॥ पुनर्विनयी साधुरनुशासितो-गुरुभिः कठोरवचनैस्तर्जितोऽपि हितं मन्यमानः सन्न कुप्येत्-कोपं न कुर्यात्, पण्डितस्तत्त्वज्ञः क्षान्ति सेवेत-क्षमां कुर्वीत । पुनः सुसाधुः क्षुदैर्बालैः सहाऽथवा क्षुदैः- पार्श्वस्थादिभिर्भग्नधर्मैः सह संसर्ग-सङ्गतिं वर्जयेत्, पुनर्हास्यं पुनः क्रीडां च वर्जयेत् ॥९॥
मा य चंडालियं कासी, बहुयं मा य आलवे ॥
कालेण य अहिज्जित्ता, तओ झाइज्ज एगगो॥१०॥ भो शिष्य ! त्वं चण्डालीकं मा कार्षीः चण्ड:-क्रोधस्तेनालीकम्, एवं लोभाद्यलीकम्, कषायवशान्मिथ्याभाषणं मा कार्षी: पुनर्बहुकं-बहु एव बहुकम्, आलजालरूपं १ निष्कास्यते मु० ॥२ कोकवात्स्यान = रतिशास्त्रनो ग्रंथ