________________
अष्टादशं संयतीयाख्यमध्ययनम् १८ ]
[ २९३
स्तोकवेलायां समागतौ द्वौ विद्याधरौ, तत्रैकेन सलिलमभिमन्त्र्य चिता सिक्ता, वैतालिनी विद्या नष्टा, राजा स्वस्थो जातो बभाण च किमिदमिति । विद्याधराभ्यां भणितमावाममिततेजसः स्वकीयौ, जिनवन्दननिमित्तमाकाशमार्गे भ्रमन्तावशनिघोषविद्याधरेणापह्रियमाणायाः सुताराया आक्रन्दशब्दं श्रुतवन्तौ, तन्मोचनार्थमावाभ्यां युद्धमारब्धम्, ततः सुतारया च प्रोक्तमलं युद्धेन । यथा महाराजः श्रीविजयो वैतालिनीविद्यामोहितो जीवितं न परित्यजति, तथा तदुद्याने गत्वा शीघ्रं कुरुत ? तत आवामिहायातौ दृष्टस्त्वं वैतालिन्या समं चितारूढः, अभिमन्त्र्य जलेन सिक्ता चिता, नष्टा सा दुष्टवैतालिनी, स्वस्थावस्थस्त्वमुत्थितः इत्यपहृतां सुतारां ज्ञात्वा विषण्णः । श्रीविजयो राजा भणितश्च ताभ्याम्, राजन् ! खेदं मा कुरु ? स पापः क्व यास्यतीत्यादिवचनैः श्रीविजयराजानमाश्वास्य तौ विद्याधरावमिततेजसमीपं गतौ ।
ततोऽमिततेजप्रेषितविद्याधररचितविमानैः स श्रीविजयोऽप्यमिततेजसमीपं गतः । अमिततेजश्रीविजयाभ्यां ससैन्याभ्यां गत्वा तन्नगरं वेष्टितम्, अशनिघोषान्तिके दूतः प्रेषितः, तयोरागमनं श्रुत्वा निघोषो नष्टः । उत्पन्नकेवलस्याचलस्य च समीपे गतः । अमिततेजश्रीविजयावपि तत्पृष्टौ तत्रायातौ । सर्वेऽपि गतमत्सरा धर्मं शृण्वन्ति एकेन विद्याधरेण सुतारापि तत्रानीता । लब्धावसरेणाशनिघोषेण भणितम्, न मया दुष्टभावेन सुतारापहृता, किन्तु विद्यां साधयित्वा गच्छता मयेयं दृष्टा, पूर्वस्नेहेनेमां त्यक्तुं न शक्नोमीति वैतालिन्या विद्यया श्रीविजयं मोहयित्वा सुतारां गृहीत्वा स्वनगरे गतः, नास्याः शीलभङ्गमकार्षम् । तथापि मात्रार्थे योऽपराधः स क्षन्तव्य इत्याकर्ण्यामिततेजसा भणितम्-भगवन् ! किं पुनः कारणं ? एतस्यास्यां स्नेहोऽभूत् । ततोऽचलकेवली कथयति-मगधदेशेऽचलग्रामे धरणीजटो नाम विप्रः, तस्य कपिलानाम चेटी, तस्याः पुत्रः कपिलो नाम । तेन कर्णश्रवणमात्रेण विद्या शिक्षिता । गतश्च देशान्तरे रत्नपुरं नाम नगरम् । तत्र कस्यचिदुपाध्यायस्य मठे गतः । उपाध्यायेन पृष्टः कस्त्वं ? कुत आगतः ? कपिलेनोक्तमचलग्रामे धरणीजटविप्रसुतः कपिलनामाहं विद्यार्थी अत्रायातस्तव समीपमिति । उपाध्यायेन सबहुमानं स्वगृहे रक्षितः । विद्यामध्याप्य स्वपुत्री तस्मै दत्ता सत्यभामानाम्नी ।
अन्यदा वर्षाकाले स कपिलो रात्रौ स्ववस्त्राणि कक्षायां कृत्वा वर्षत्येव मेघे स्वगृहद्वारे समायातः । सत्यभामा चायं स्तिमितवस्त्रो भविष्यतीति चिन्तयन्त्यपराणि वस्त्राणि गृहीत्वा गृहद्वारे सन्मुखमायाता । कपिलेन तस्या उक्तमस्ति मम प्रभावो, येन वस्त्राणि न स्तिम्यन्ति । तावता विद्युत्प्रकाशे तया स नग्नो दृष्टः । ज्ञातं चायं नग्न एव समायातः, वस्त्राणि कक्षायां निहितवानित्यवश्यमयं हीनकुल इति सा कपिले मन्दस्नेहा जाता ।
अन्यदा धरणीजटो विप्रस्तत्र कपिलसमीपे समायातः । सत्यभामा च पितृपुत्रयोविरुद्धमाचारं दृष्ट्वा परमार्थं पृष्टो धरणीजटविप्रः । तेन यथार्थं कथितम् । तत् श्रुत्वोद्विग्ना सत्यभामा कामभोगेभ्यो निर्विण्णा, प्रव्रज्याग्रहणनिमित्तं पृष्टः कपिलः, न मुञ्चत्येष