________________
२९२]
[उत्तराध्ययनसूत्रे सिंहासने चोपविष्टः । पृष्टश्च मया किमागमनप्रयोजनं ? ततस्तेन भणितम्, महाराज ! मया निमित्तमवलोकितम्, यथा पोतनाधिपतेरुपरि इतो दिवसात्सप्तमे दिवसे मध्याह्नसमये विद्युत्पतिष्यति। इदं च कर्णकटुकं वचः श्रुत्वा मन्त्रिणा भणितम् । तदानीं तवोपरि किं पतिष्यति ? तेनोक्तं मा कुप्यत । यथा मयोपलब्धं निमित्तं तथा भवतां कथितम्, न चात्र मम कोऽपि भावदोषोऽस्ति । ममोपरि तस्मिन् दिवसे हिरण्यवृष्टिः पतिष्यति । मया भणितं त्वयैतन्निमित्तं क्व पठितं ? तेन भणितं त्रिपृष्ठवासुदेवभ्रात्रचलबलदेवदीक्षासमये पित्रा समं मयापि प्रव्रज्या गृहीता । तत्रानेकशास्त्राध्ययनं कुर्वता मयाष्टाङ्गनिमित्तमप्यधीतम् । ततोऽहं प्राप्तयौवनः पूर्वदत्तकन्याया भ्रातृभिरुत्प्रवाजितः । कर्मपरिणतिवशेन सा मया परिणीता । तेन मया सर्वज्ञप्रणीतनिमित्तानुसारेण प्रलोकितम्, यथा सप्तमे दिवसे पोतनाधिपतेरुपरिविद्युत्पातो भविष्यति । एवं तेन नैमित्तिकेनोक्ते एकेन मन्त्रिणा भणितम्यथा महाराज ! समुद्रमध्ये वाहनान्तर्भवद्भिः सप्तदिवसान् यावत् स्थेयम्, तत्र विद्युन्न पराभवति । अन्येन मन्त्रिणा भणितं दैवयोगोऽन्यथा कर्तुं न तीर्यते । यत उक्तं
धारिज्जइ इंतो सागरोवि, कल्लोलभिन्नकुलसेलो ।
नहु अन्नजम्मनिम्मिअ-सुहासुहो कम्मपरिणामो ॥ १ ॥ अपरेण मन्त्रिणा भणितम्, पोतनाधिपतेर्वधोऽनेन समादिष्टः, न पुनः श्रीविजयराज्ञः । सप्तमदिवसान् यावदपरः कोऽपि पोतनाधिपतिविधीयते । सर्वैरप्युक्तमयमुपायः साधुः । मयोक्तं मज्जीवितरक्षाकृतेऽपरजीववधः कथं क्रियते ? सर्वैरुक्तं तर्हि यक्षप्रतिमाया राज्याभिषेकः क्रियते । एवं मन्त्रयित्वा सर्वैरपि यक्षप्रतिमा पोतनपुरराज्येऽभिषिक्ता । सप्तदिवसान् यावन्मया पौषधागारे गत्वा पौषधा एव कृताः । सप्तमदिवसमध्याह्नसमये गगनमार्गेऽकस्मात्मेघः समुत्पन्नः, स्फुरिता विद्युल्लता, इतस्ततः परिभ्रम्य यक्षप्रतिमा विनाशिता । अष्टमे दिवसे चाहं पौषधशालातो निर्गत्य क्षेमेण स्वभुवने समायातः, तं नैमित्तिकं च कनकरत्नादिभिः पूजितवान् । पुनरहं नागरिकैः पोतनराज्येऽभिषिक्तः । तदिदमस्मिन्नगरे महोत्सवकारणमिति श्री विजयेनोक्तेऽमिततेजः प्राह-अविसंवादिनिमित्तम्, शोभनो रक्षणोपाय इत्युक्त्वाऽमिततेजो राजा स्वस्थानं गतवान् । ____ अन्यदा श्रीविजयराजा सुतारया समं वने रन्तुं गतः । सुतारया तत्र कनकमृगो दृष्टः, श्रीविजयस्योक्तम्-स्वामिन् ! ममैनं मृगमानीय देहि । मम क्रीडार्थे भविष्यति । ततः श्रीविजयराजा तद्ग्रहणार्थे स्वयमेव प्रधावितः, नष्टो मृगः तत्पृष्टिं राजा न त्यजति ।कियन्ती भूवं गत्वोत्पतितो मृगः, तावता सुतारा कुर्कुटसर्पण दष्टा, पूच्चकार । अहं कुर्कुटसर्पण दष्टा, हा प्रिय ! मां त्रायस्वेति श्रुत्वा श्रीविजयस्त्वरितं पश्चादायातः । तावता सुतारा पञ्चत्वमुपागता । राजा च शोकपरवशस्तया समं चितायां प्रविष्टः, उद्दीप्तो ज्वलनः, तावता १ धार्यते यान् सागरोऽपि, कल्लोलभिन्नकुलशैलः । न अन्यजन्मनिर्मित-शुभाशभः कर्मपरिणामः ॥१॥