________________
२९० ]
"
[ उत्तराध्ययनसूत्रे इदं शक्रवचोऽश्रद्दधानौ विजयवैजयन्तौ देवौ ब्राह्मणरूपावागतौ, प्रतीहारेण मुक्तद्वारौ गृहान्तः प्रविष्टौ राजसमीपं गतौ । दृष्टश्च तैलाभ्यङ्गं कुर्वन् राजा, अतीवविस्मितौ देव शक्रवर्णितरूपाधिकरूपं तं पश्यन्तौ तौ राज्ञा पृष्टौ किमर्थं भवन्तावत्रायातौ ? तौ भणतो देव ! भवद्रूपं त्रिभुवने वर्ण्यते, तद्दर्शनार्थं कौतुकेनावामत्रायातौ । ततोऽतिरूपगर्वितेन राज्ञा तावुक्तौ भो भो विप्रौ ! युवाभ्यां किं मद्रूपं दृष्टं ? स्तोककालं प्रतीक्षेयाः, यावदहमा-स्थानसभायामुपविशामि । एवमस्त्विति प्रोच्य निर्गतौ द्विजौ । चक्र्यपि शीघ्रं मज्जनं कृत्वा सर्वाङ्गोपाङ्गशृङ्गारं दधत् सभायां सिंहासने उपविष्टः, आकारितौ द्विजौ, ताभ्यां तदा चक्रिरुपं दृष्ट्वा विषण्णाभ्यां भणितमहो ! मनुष्याणां रूपलावण्ययौवनानि क्षणदृष्टनष्टानि । तयोर्द्विजयोरेतद्वचः श्रुत्वा चक्रिणा भणितम् - भो ! किमेवं भवन्तौ विषण्णौ मम शरीरं निन्दतः ? ताभ्यां भणितम्-महाराज ! देवानां रूपयौवनतेजांसि प्रथमवयसः समारभ्य षण्मासशेषायुः समयं यावदवस्थितानि भवन्ति, यावज्जीवं न हीयन्ते । भवतां शरीरे त्वाश्चर्यं दृश्यते, यत्तव रूपलावण्यादिकं साम्प्रतमेव दृष्टं नष्टम् । राज्ञा भणितम्कथमेवं भवद्भ्यां ज्ञातं ? ताभ्यां शक्रप्रशंसादिकः सर्वोऽपि वृत्तान्तः कथितः ।
चक्रिणा तु केयूरादिविभूषितं बाहुयुगलं पश्यता, हारादिविभूषितमपि स्ववक्षःस्थलं विवर्णमुपलक्ष्य चिन्तितमहो ! अनित्यता संसारस्य ! असारता शरीरस्य ! एतावन्मात्रेणापि कालेन मच्छरीरस्य यौवनतेजांसि नष्टानि । अयुक्तोऽस्मिन् भवे प्रतिबन्धः, शरीरमोहाऽज्ञानम्, रूपयौवनाभिमानो मूर्खत्वम्, भोगासेवनमुन्मादः, परिग्रहो ग्रह इव । तदेतत्सर्वं व्युत्सृज्य परलोकहितं संयमं गृह्णामीति विचार्य चक्रिणा पुत्रः स्वराज्येऽभिषिक्तः, स्वयं संयमग्रहणायोद्यतो जातः । तदानीं ताभ्यां देवाभ्यां भणितं -
""अणुचरियं धीर तुमे, चरियं निययस्स पुव्वपुरिसस्स । भरहमहानरवइणो, तिहुअणविक्खायकित्तिस्स ॥ १ ॥"
इत्याद्युक्त्वा देव गतौ । चक्र्यपि तदानीमेव सर्वं परिग्रहं परित्यज्य विरताचार्यसमीपे प्रव्रजितः । ततः स्त्रीरत्नप्रमुखाणि सर्वरत्नानि शेषाश्च रमण्यः सर्वेऽपि नरेन्द्राः सर्वसैन्यलोका नव निधयश्च षण्मासान् यावत्तन्मार्गानुलग्नास्तेन संयमिना सिंहावलोकनन्यायेन दृष्ट्यापि न विलोकिताः । षष्ठभक्तेन भिक्षानिमित्तं गोचरप्रविष्टस्य प्रथममेवा - जातक्रं तस्य गृहस्थेन दत्तम् । द्वितीयदिवसे च षष्ठमेव कृतम् । पारणके प्रान्तनीरसाहारकरणात्तस्यैते रोगाः प्रादुर्भूता:- कण्डूः १, ज्वरः २, कासः ३, श्वासः ४, स्वरभङ्गः ५, अक्षिदुःखम् ६, उदरव्यथा ७, एताः सप्त व्याधयः सप्तशतवर्षाणि यावदध्यासिताः । उग्रतपः कुर्वतस्तस्य आमर्षौषधी १, खेलौषधी २, विप्रुडौषधी ३, जल्लोषधी ४, सर्वोषधी १ अनुचरितं धीर ! त्वं, चरित्रं निजकस्य पूर्वपुरुषस्य । भरतमहानृपतेः, त्रिभुवनविख्यातकीर्तेः ॥ १ ॥