________________
अष्टादशं संयतीयाख्यमध्ययनम् १८]
[२८९ स्वनगरे गतः । तत्र कुमारेण कन्याशतं परिणीतम् । पुनरत्रागतश्च दशोत्तरेण कन्याशतेन सह भोगान् भुङ्क्ते कुमारः । अद्य पुनरेवमुक्तं कुमारेण यथाद्य गन्तव्यं यत्रास्माभिर्यक्षो जितः ।साम्प्रतमत्रायातस्य कुमारस्य पुरः प्रेक्षणं कुर्वन्तीनामस्माकं कुमारपत्नीनां भवदर्शनं जातमिति । . अत्रान्तरे रतिगृहशय्यात उत्थितः कुमारो महेन्द्रसिंहेन समं विद्याधरपरिवृतो वैताढ्यं गतः ।अवसरं लब्ध्वा महेन्द्रसिंहेन विज्ञप्तम्, कुमार ! तव जननीजनको त्वद्विरहात्तौ दुःखेन कालं गमयतः । ततस्तद्दर्शनप्रसादः क्रियताम् । इति महेन्द्रसिंहवचनान्तरमेव महता गगनस्थितविद्याधरविमानहयगजादिवाहनारूढविद्याधरवृन्दसम्मर्दैन हस्तिनागपुरे प्राप्तः कुमारः। आनन्दिताश्च जननीजनकनागरजनाः। ततो महता विभूत्याऽश्वसेनराज्ञा सनत्कुमारः स्वराज्येऽभिषिक्तः । महेन्द्रसिंहश्च सेनापतिः कृतः । जननीजनकाभ्यां स्थविराणामन्तिके प्रव्रज्यां गृहीत्वा स्वकार्यमनुष्ठितम् । सनत्कुमारोऽपि प्रवर्द्धमानकोशबलसारो राज्यमनुपालयति ।
पन्नानि चतर्दश रत्नानि नवनिधयश्च । कता च तेषां पजा। तदनन्तरं चक्ररत्नदर्शितमार्गों मागधवरदामप्रभाससिन्धुखण्डप्रपातादिक्रमेण भरतक्षेत्रं साधितवान् ।
एवं सनत्कुमारो हस्तिनागपुरे चक्रवर्तिपदवीं पालयन् यथेष्टं सुखानि भुङ्क्ते ।शक्रेणावधिज्ञानप्रयोगात्तं पूर्वभवे स्वपदाधिरूढं ज्ञात्वा महता हर्षेण वैश्रमणोऽनुज्ञातः । सनत्कुमारस्य राज्याभिषेकं कुरु, इमंच हारम्, वनमालाम्, छत्रम्, मुकुटम्, चामरयुगलम्, कुण्डलयुगम्, दूष्ययुगम्, सिंहासनम्, पादपीठं च प्राभृतं कुरु । शक्रेण तव वृत्तान्तः पृष्टोऽस्तीति ब्रूयाः। वैश्रमणोऽपि शक्रदत्तं गृहीत्वा गजपुरनगरेसमागत्य तत्प्राभृतं चक्रिणः पुरो मुक्तवान्, शक्रवचनं चोक्तवानिति । पुनः शक्रेण तिलोत्तमा-रम्भे देवाङ्गने तत्र तदभिषेककरणाय प्रेषिते । चक्रिणोऽनुज्ञां गृहीत्वा विकुर्वितयोजनप्रमाणमणिपीठोपरिरचितमणिमण्डपान्तः स्थापिते मणिसिंहासने कुमारं निवेश्य कनककलशाहृतक्षीरोदजलधाराभिर्धवलगीतानि गायन्तो देवीदेवा अभ्यषिञ्चन्।रम्भातिलोत्तमादिदेव्यस्तदानीं नृत्यं कुर्वन्ति । महामहोत्सवेन कुमारमभिषिच्य वैश्रमणादयः स्वर्गलोकं जग्मुः । चक्र्यपि भोगान् भुञ्जन्, कालं गमयति ।
अन्यदा सुधर्मसभायां सौधर्मेन्द्रः सिंहासनेऽनेकदेवदेवी सेवितः स्थितोऽस्ति । अत्रान्तरे एक ईशानकल्पदेवः सौधर्मेन्द्रपार्श्वे आगतः । तस्य देहप्रभया सभास्थितदेवदेहप्रभाभरः सर्वतो नष्टः । आदित्योदये चन्द्रग्रहादय इव निष्प्रभाः सर्वे सुरा जाताः । तस्मिन् पुनः स्वस्थाने गते देवैः सौधर्मेन्द्रः पृष्टः, "स्वामिन् ! केन कारणेनास्य देवस्येदृशी प्रभा जातास्ति ।" शक्र प्राहानेन पूर्वभवे आचाम्लवर्धमानतपोऽखण्डं कृतम्, तत्प्रभावादस्य देहे प्रभेदृशी जातास्ति । देवैः पुनरिन्द्रः पृष्टः, अन्योऽपि कश्चिदीदृशो दीप्तिमानस्ति न वा? इन्द्रेण भणितम्-यथा हस्तिनागपुरे कुरुवंशेऽस्ति सनत्कुमारनामा चक्री, तस्य रूपं सर्वदेवेभ्योऽप्यधिकमस्ति । 39