________________
त्रयोदशं चित्रसम्भूतीयमध्ययनम् १३]
[२२३ सोदाणिसिं राय महाणुभागो, महिड्डिओ पुन्नफलोववेओ । चईत्तु भोगाइ असासयाई, आदाणहेउं अभिनिक्खमाहि ॥२०॥
हे राजन् ! यस्त्वं सम्भूतः पुरा आसीः, 'सोदाणिसिं' स त्वमिदानीं राजा चक्रधरो महानुभागो माहात्म्यसहितो जातोऽसि । कीदृशो राजा ? महर्द्धिको - विशाललक्ष्मीकः, पुनः कीदृशः ? पुण्यफलोपपेतः-पुण्यफलसहितः तस्मादादानहेतोः आदानस्यचारित्रधर्मस्य हेतोः,आदीयते सविवेकरित्यादानं चारित्रधर्मस्तस्य हेतोः 'अभिनिक्खमाहि' अभिनिष्क्रम, अभि-समन्तान्निःक्रम, गृहपाशात्त्वं निस्सर, साधुर्भवेत्यर्थः । किं कृत्वा ? अशाश्वतान्-अनित्यान् भोगान् त्यक्त्वा । पुराकृतस्य धर्मस्य फलं चेत्त्वयेदानीं भुज्यते तदेदानीमपि धर्ममङ्गीकुरु । यतोऽग्रे शाश्वतसुखभाक् स्यादिति भावः ॥२०॥
धर्मस्य अकरणे दोषमाहइह जीविए राय असासंयमि, धणियं तु पुन्नाइं अकुव्वमाणो। से सोअई मच्चु मुहोवणीए, धम्मं अकाऊण परम्मि लोए ॥२१॥
हे राजन् ! इहास्मिन् मनुष्यजीविते-मनुष्यायुषि पुण्यान्यकुर्वाणो मनुष्यः सुकृतानि न करोति, स दुष्कर्मभिर्मृत्युमुखमुपनीतः सन् धर्ममकृत्वा परस्मिन् लोके गतः शोचतेपश्चात्तापं कुरुते । मरणसमये एवं जानाति हा मया मनुष्यजन्म प्राप्य धर्मो न कृतः, इति चिन्तां करोति । कथंभूते जीविते ? 'धणियं' तु अत्यन्तमशाश्वते ॥२१॥
जहेह सीहो य मियं गहाय, मच्चू नरं नेइ हु अंतकाले । न तस्स माया व पिया व भाया, कालंमि तम्मि सहरा भवंति ॥२२॥
यथेह संसारे सिंहो मृगं गृहीत्वा, स्ववशं नयति । अत्र चशब्दः पादपूरणे, एवमनेनैव प्रकारेण, अनेनैव दृष्टान्तेन मृत्युर्मरणम्, 'हु' इति निश्चयेनान्तकाले नरं-मनुष्यं गृहीत्वा स्ववशं नयति । तस्मिन् मनुष्यस्य मरणकाले माता, च पुनः पिता, च पुनर्धाता, एते सर्वे अंशधरा न भवन्ति, अंशं-स्वजीवितव्यभाग धारयन्ति । मृत्युना नीयमानं नरं रक्षन्तीत्यंशधराः, स्वजीवितव्यदायका न भवन्तीत्यर्थः ॥२२॥
पुनर्दुःखादपि न जायन्ते इत्याहन तस्स दुक्खं विभयंति नाइओ, नमित्तवग्गा न सुया न बंधवा ।
इक्को सयं पच्चणुहोइ दुक्खं, कत्तारमेवं अणुजाइ कम्मं ॥ २३ ॥ ---- पुनः हे राजन् ! तस्य मनुष्यस्य अर्थात् दुःखार्तस्य नरस्य दुःख-शारीरिक मानसिकं दुःखं ज्ञातयः- स्वजना न विभजन्ति, दुःखस्य विभागिनो न भवन्ति । पुनर्मित्रवर्गामित्रसमूहाः, पुनः सुता - अङ्गजाः, पुनर्बान्धवा-भ्रातरोऽपि न दुःखं विभजन्ति । तदा किं भवतीत्याह-एकोऽयं जीवोऽसहायी स्वयमेव दुःखं प्रत्यनुभवति, एकाकी स्वयमेव दुःखं