________________
२२२]
[उत्तराध्ययनसूत्रे पुनः कीदृशश्चित्रः ? तस्य ब्रह्मदत्तस्य हितानुप्रेक्षी - हितवाञ्छकः, हितमनुप्रेक्षते इत्येवंशीलो हितानुप्रेक्षी ॥ १५ ॥ किमुदाजहारेत्याह -
सव्वं विलवियं गीयं, सव्वं न विडंबियं ।
सव्वे आभरणा भारा, सव्वे कामा दुहावहा ॥ १६ ॥ 'हे राजन् ! गीतं सर्वं विलपितं - विलापतुल्यम् । सर्वं नाट्य-नाटकं विडम्बितम्, भूतावेष्टितपीतमद्यादिजनाङ्गविक्षेपतुल्यम् । सर्वाण्याभरणानि भारतुल्यानि । सर्वे कामा दुःखावहा-दुःखदायकाः, गज-पतङ्ग-भृङ्ग-मीन-कुरङ्गादीनामिव बन्धनमरणादिकष्टदा इत्यर्थः ॥१६॥
बालाभिरामेसु दुहावहेसु, न तं सुहं कामगुणेसु रायं । विरत्तकामाण तवोहणाणं, जं भिक्खुणं सीलगुणे रयाणं ॥१७॥
हे राजन् ! विरक्तकामानां विरक्ता कामेभ्य इति विरक्तकामास्तेषां निर्विषयिणां भिक्षूणां-साधूनां यत्सुखं वर्तते, तत्सुखं कामगुणेषु - शब्दादिषु इन्द्रियसुखेषु कामिनां पुरुषाणां नास्ति । कीदृशेषु कामगुणेषु ? बालाभिरामेषु बालानां निविवेकाणामभिरामा बालाभिरामास्तेषु, मूर्खा हि विषयेषु रज्यन्ते । पुनः कीदृशेषु कामगुणेषु ? दुःखावहेषुदुःखदायकेषु । कीदृशानां भिक्षूणां ? तपोधनानां, तप एव धनं येषां ते तपोधनास्तेषाम् । पुनः कीदृशानां ? शीलगुणे रतानाम्, शीलस्य गुणा गुणकारिणो नवविधगुप्तयस्तेषु रता आसक्तास्तेषाम् ॥१७॥
नरिंद जाई अहमा नराणं, सोवागजाई दुहओ गयाणं । जहिं वयं सव्वजणस्स वेसा, वसीय सोवागनिवेसणेसु ॥१८॥
हे नरेन्द्र ! नराणां-मनुष्याणां मध्ये अधमा निन्द्या जातिः श्वपाकस्य-चाण्डालस्य जातिवर्तते,सा जातियोरपिआवयोर्गता-प्राप्ता, णं'इति वाक्यालङ्कारे, यस्यांजातौ आवां सर्वजनस्य द्वेष्यौ अभूव । श्वपाकनिवेसनेषु - चाण्डालगृहेषु वसीय-आवामवसाव॥१८॥
तीसे य जाईइ उ पावियाए, वुच्छामु सोवागनिवेसणेसु । सव्वस्स लोगस्स दुर्गच्छणिज्जा, इहं तु कम्माइं पुरे कडाई ॥१९॥
तस्यां च जातौ तु पापिकायां-पापिष्ठायां श्वपाकनिवेशनेषु-चाण्डालगृहेषु 'वुच्छामु' इति उषितौ निवासमकाव । कीदृशौ आवां ? सर्वस्य लोकस्य जुगुप्सनीयौ-हीलनीयौ, इह तु अस्मिन् जन्मनि पुराकृतानि कर्माणि प्रकटीभूतानीत्यर्थः । प्राचीनजन्मनि सम्यगनुष्ठानरूपाणि कृतानि, तेषां फलानि जानि-कुल-बलैश्वर्यरूपाणि इह प्रकटितानि । तस्माद्धर्मकरणे प्रमादो न विधेय इत्यभिप्रायः ॥१९॥