________________
त्रयोदशं चित्रसम्भूतीयमध्ययनम् १३]
[२२१ ज्ञानम्, शीलं च गुणश्च शीलगुणौ, ताभ्यामुपपेताः शीलगुणोपपेताः क्रियाज्ञानसहिताः सन्तोऽर्हन्मते स्थिरा भवन्तीत्यर्थः । तां गाथां श्रुत्वाहमपि श्रमणस्तपसि निरतो जातोऽस्मि, न तु दुःखात्साधुः सञ्जातोऽस्मीति भावः ॥ १२ ॥
उच्चोदए महु कक्के य बंभे, पवेइया आवसहा य रम्मा। इमं गिहं चित्तधणप्पभूयं, पसाहि पंचालगुणोववेयं ॥ १३ ॥
अथ ब्रह्मदत्तः पुनः साधुं निमन्त्रयति, पूर्वनाम्ना सम्बोधनं कृत्वा वदति । हे चित्र ! त्वमिममिदं प्रभूतधनं गृहम्, प्रचुरधनसहितं गृहं प्रसाधि-प्रतिपालय । गृहे स्थित्वा सुखं भुक्ष्वेत्यर्थः । अथवा 'चित्तधणप्पभूयं, इत्येकमेव पदं गृहविशेषणम् । चित्रं-नानाप्रकारम् प्रभूतं-प्रचुरं धनं यस्मिन् तच्चित्रप्रभूतधनं, एतादृशं मम मन्दिरं गृहाणेत्यर्थः । पुनः कीदृशं गृहं ? पञ्चालदेशानां गुणा इन्द्रियविषयाः शब्द-रूप-रस-गंध-स्पर्शास्तैरुपपेतं पाञ्चालगुणोपपेतम् । च पुना रम्या-रमणीया ममावसथाः-प्रासादाः प्रवेदिताः- प्रकर्षेण वेदिताः प्रवेदिताः, प्रकटाः सन्ति । तानपि त्वं प्रसाधीति शेषः । मम वार्धकिरत्नपुरस्सरैर्देवैरुपनीताः प्रासादाः, ते के प्रासादाः ? उच्च १, उदय २, मधु ३, कर्क ४, ब्रह्म ५, एते पञ्च प्रासादा यत्र चक्रिणो रोचन्ते तत्रैव स्युः।वार्धकिरत्नेन-चक्रिसूत्रधारेण विधीयन्ते इति वृद्धा आहुः । तस्मादत्रेदं गृहमिति पृथगुक्तमस्ति । पाञ्चालानां गुणग्रहणं तु अत्युदीर्णत्वात् । अन्यथा भरतक्षेत्रस्य सारं तद्गृहेऽस्त्येव ॥ १३ ॥
नमुहिं गीएहिं य वाइएहिं, नारीजणाइं परिवारयंतो । भुंजाहि भोगाइं इमाइं भिक्खु, मम रोयई पव्वज्जा हुदुक्खं ॥१४॥
भो चित्र ! हे भिक्षो ! हे साधो ! ममैतदोचते, एतद् हृदये प्रतिभाति ।'हु' इति निश्चयेन प्रव्रज्या दुःखं वर्तते इति शेषः ।दीक्षायां सुखं किमपि नास्ति । तस्मात् हे साधो ! त्वमिमान् प्रत्यक्षं दृश्यमानान् भोगान् भुट्व । कथंभूतः सन् ? नाटकैात्रिंशद्विधैः, गीतैर्गान्धर्वशास्त्रोक्तः, वादित्रैर्भरतशास्त्रोक्तैर्मृदङ्गादिभिस्तथा नारीजनैः परिवृतः सन् विषयसुखान्यनुभव।अत्र नारीजनानामेव ग्रहणं कृतम्, अन्येषां गजाऽश्व-वस्त्राऽऽसन-दव्यादीनां ग्रहणं न कृतम्, तत्तु तस्य स्त्रीलोलुपत्वात्, सर्वविषयेषु स्त्रीणामेव प्राधान्यात् ॥१४॥ तं पुव्वनेहेण कयाणुरागं, नराहिवं कामगुणेसु गिद्धं । धम्मस्सिओ तस्स हियाणुपेही, चित्तो इमं वयणमुदाहरित्था ॥१५॥
यदा तु ब्रह्मदत्तेन-सम्भूतजीवेन चित्रजीवं साधुं प्रत्युक्तम्, तदा चित्रजीव:- साधुश्चित्र इदं वचनं तं ब्रह्मदत्तनराधिपं चक्रिणं प्रति उदाजहार-अवादीत् । कथंभूतं तं ब्रह्मदत्तं ? पूर्वस्नेहेन कृतानुरागम्, पूर्वभवबान्धवप्रेम्णा विहितप्रीतिभावम् । पुनः कथंभूतं नराधिपं ? कामगुणेषु-विषयसुखेषु गृद्धं-लोलुपम् । कीदृशश्चित्रजीवसाधुः ? धर्माश्रितो-धर्ममाश्रितः।