________________
२२०]
[ उत्तराध्ययनसूत्रे कृतकर्मक्षयो नास्ति, कल्पकोटिशतैरपि ।
अवश्यमेव भोक्तव्यं, कृतं कर्म शुभाशुभं ॥ १ ॥ तस्मान्ममाप्यात्मा अर्थैर्दव्यैः पुनः कामविषयसुखैः पुण्यफलैरुपपेतो वर्तते । कीदृशैरथैः कामैः ? उत्तमैर्मनोहरैः । अथवा कीदृशैः कामैः ? अW-प्राथनीयैः, अर्थ्यन्तेप्रार्थ्यन्ते जनैरित्यर्थ्याः, तैरथ्यरित्यनेन-चित्रजीवेन साधुनोक्तं मयापि सर्वेन्द्रियाणां सुखानि दव्याणि च पुण्यफलानि प्राप्तानीति । इति त्वया न ज्ञातव्यं यदनेन किमपि सुकृतफलं न लब्धमस्तीति भावः ॥१०॥
तदेव सूत्रकारो गाथया आहजाणाहि संभूय महागुणभागं, महिड्डियं पुण्णफलोववेयं । चित्तंपि जाणाहि तहेव रायं, इड्डी जुई तस्सवि य प्पभूया ॥११॥
पूर्वनाम्नार्षिर्वदति-हे सम्भूतमहाराज ! यथा त्वमात्मा महानुभागं तथा महर्द्धिकं तथा पुण्यफलोपपेतं जानासि, तथा चित्रमपि-मामपि तादृशमेव जानीहि । महान् अनुभागो यस्य स महानुभागस्तं महानुभागं बृहन्माहात्म्यम् । तथा महत्वृद्धिर्यस्य स महर्द्धिः, महद्धिरेव महर्द्धिकस्तं महर्द्धिकं-विशाललक्ष्मीकम्, पुण्यफलेन उपपेतस्तं एतादृशम् ।ऋद्धिर्द्विपदचतुष्पद-धन-धान्यादिसम्पत्तिः, द्युतिर्दीप्तिस्तस्य चित्रस्यापि, अर्थान्ममापि प्रचुरा वर्तते इति जानीहि । चशब्दोऽत्र यस्मादर्थे । इह वृद्धसम्प्रदायः-यथा निदानसहितः सम्भूतसाधुश्चक्रवर्त्यभूत्, तथा चित्रसाधुनिदानरहित एकस्य श्रेष्ठिमहर्द्धिकस्य कुले पुत्रत्वेनोत्पन्नः, तत्र चक्रवर्तिवत्तस्य ऋद्धिरासीत् प्रतिदिनं सुवर्णदीनाराणां कोटिं याचकेभ्यो ददान आसीत् । निरन्तरं च षट्ऋतुसुखदायकेषु मनोहरोच्चस्तरप्रासादेषु भोगान् भुञ्जानोऽनेकगज-तुरगरथ-यानादिकद्धिमान् सुरूपकामिनीनां परिकरेण परिवृत्तो द्वात्रिंशद्विधं नाटकं पश्यन् सदा सुखनिमग्नो बहुधा भोगरसयुक्तो बभूवेति कथानकं ज्ञेयम् ॥ ११ ॥
महत्थरूवा वयणप्पभूआ, गाहाणुगीया नरसंघमज्झे । जं भिक्खुणो सीलगुणोववेया, इहं जयंते समणो मि जाओ ॥१२॥
अथ चेदेतादृश्यद्धिस्तव आसीत्, तर्हि कथं त्यक्ता ? हे भ्रातः सा गाथा साधुभिर्नरसङ्घमध्ये, नराणां-मनुष्याणां सङ्के नरसङ्घस्तस्य मध्ये मनुष्यसभामध्येऽनुगीता उक्ता, मया श्रुतेति शेषः । गीयते इति गाथा धर्माभिधायिनी सूत्रपद्धतिर्मया स्थविरमुखात्कर्णगोचरीकृता । कथंभूता गाथा ? महार्थरूपा, महान् द्रव्य-पर्यायभेदसहितो निश्चय-व्यवहारसहितश्च अर्थो यस्य तन्महार्थम्, तादृशं रूपं यस्याः सा महार्थरूपा । पुनः कीदृशा गाथा ? 'वयणप्पभूआ,' वचनैर्नयभेदैः प्रभूता वचनाप्रभूता, अल्पाक्षरा बह्वर्थेत्यर्थः । सा इति का गाथा ? यां गाथां श्रुत्वा, इत्यध्याहारः, यां धर्माभिधायिनी सूत्रपद्धतिं श्रुत्वा भिक्षव:साधवः शीलगुणोपपेताः सन्त इह जिनप्रवचने यतन्ते मुनयः । शीलं-चारित्रम्, गुणो