________________
त्रयोदशं चित्रसम्भूतीयमध्ययनम् १३]
[२१९ देवा य देवलोगंमि, आसि अम्हे महिड्डिया ।
इमा णो छठ्ठिया जाई, अन्नमन्त्रेण जा विणा ॥७॥ पुनस्ततश्चाण्डालजन्मनः परं भो भ्रातः ! 'अम्हे' आवां देवलोके-सौधर्मदेवलोके महर्द्धिकौ देवावभूव । हे भ्रातः ! 'णो' इत्यावयोरन्योन्ययावनिका-परस्परसाहित्यरहिता परस्परवियोगसहिता षष्ठिका जातिरियं प्रत्यक्षा जाता ॥७॥ इति श्रुत्वा मुनिराह
कम्मा नियाणप्पगडा, तुमे राय विचिंतिया।
तेर्सि फलविवागेणं, विप्पओगमुवागया ॥ ८ ॥ हे राजन् ! त्वया कर्माणि विचिन्तितानि, आर्तध्यानरूपाणि ध्यानानि ध्यातानि, आर्तध्यानहेतुभूतानि कर्माणि विचिन्तितानीत्यर्थः निदानेनोपार्जितानि । कीदृशानि कर्माणि ? निदानप्रकृतानि निदानेन-भोगप्रार्थनावशेन प्रकृतानि निदानप्रकृतानि प्रकर्षण बद्धानि । तेषां कर्मणां फलविपाकेन-फलोदयेन आवां विप्रयोगमुपागतौ-वियोगं प्राप्तौ ॥८॥ अथ चक्री प्रश्नं करोति
सच्चसोअप्पगडा, कम्मा मए पुरा कडा ।
ते अज्ज परिभुंजामो, किं नु चित्तेवि से तहा ॥९॥ हे साधो ! हे भ्रातर्मया पुरा-पूर्वजन्मनि कर्माणि कृतानि । कथंभूतानि कर्माणि ? सत्यशौचप्रकटानि, सत्यं मिथ्यारहितम्, शौचमात्मशुद्धिकारकं धर्ममयमनुष्ठानम् । सत्यं च शौचं च सत्यशौचे, ताभ्यां प्रकटानि-प्रसिद्धानि । एतादृशानि यानि मया सुकर्माणि कृतानि, तानि शुभकर्माणि अद्यास्मिन् जन्मनि परिसमन्तात् भुजे, स्त्रीरत्नभोगद्वारेण तेषां फलं विषयसखान्यनभवामि । हे चित्र ! यथाहं राज्यसखं भजे. तथा किं चित्रोऽपिभवानपि 'नु' भुक्ते ? 'नु' इति वितर्के । कोऽर्थः ? चक्री वदति यथाहमिदानीं पूर्वोपार्जितानां सुकृतानां फलानि परिभुझे, तथा किं चित्र, भवान् परिभुङ्क्ते ? अपि तु भवान् न परिभुङ्क्ते एव । भवतस्तु भिक्षुकत्वात् तानि सुकृतानि कि निष्फलानि जातानीत्याशयः ॥९॥
अथ मुनिराहसव्वं सुचिन्नं सफलं नराणं, कडाण कम्माण न मुक्ख अत्थि। अत्थेहि कामेहि य उत्तमेहिं, आया ममं पुनफलोववेए ॥ १० ॥
हे राजन् ! नराणां सुचीर्ण-सम्यक्प्रकारेण कृतं संयमतपःप्रमुखं सर्वं सफलमेव वर्तते । नराणामित्युपलक्षणत्वात् सर्वेषामपि सफलं भवति यतः कृतेभ्यः कर्मभ्यो मोक्षो नास्ति, जीवैः कृतानि कर्माण्यवश्यं भुज्यन्ते, प्राकृतत्वात् पञ्चमीस्थाने षष्ठी । कृतानां कर्मणां मोक्षो नास्ति, यदुक्तम्