________________
२१८]
[ उत्तराध्ययनसूत्रे
अथ स चित्रजीवो गृहीतदीक्षः समुत्पन्नजातिस्मृत्यादिज्ञानो विहरन् काम्पिल्ये नगरे समागतः। तत्रैव काम्पिल्ये नगरे ब्रह्मदतोऽपि लब्धचक्रवर्तिपदस्तिष्ठति । एकदा सदेवोपनीतमन्दारकल्पवृक्षाणां मालासाधर्म्यं दृष्ट्वा समुत्पन्नजातिस्मृतिरभूत । तदा च ब्रह्मदत्तेन -
"आस्व दासौ मृगौ हंसौ, मातंगावमरौ तथा ।" इति श्लोकार्थं स्वबन्धुसम्बन्धगर्भितं कृत्वा नगरे उद्घोषणा कारिता । यः कश्चिदग्रेतनं श्लोकार्थं पूरयति, तस्मै वाञ्छितं ददामि । राज्यार्धं दद्मि । अस्मिन्नेवावसरे भ्रातृबोधनार्थं समागतेन चित्रजीवसाधुना -
"इमा नौ षष्ठिका जाति-रन्योन्याभ्यां वियुक्तयोः ॥ १ ॥” इति श्लोकोत्तरार्धं पूरितम् । तद्वनमध्ये अरघट्टभ्रामकेण आरामिकेण साधुमुखेन श्रुत्वा राज्ञोऽग्रे उक्तम् । राजापि श्रुत्वा मूर्च्छां प्राप । ततो राज्ञा पृष्टेन कुट्टितेन च तेनोक्तं मया श्लोकार्थं पूरितं नास्ति । किन्त्वा कायोत्सर्गस्थितेन एकेन साधुना पूरितम् । ब्रह्मदत्तचक्रधरेण श्लोकपूरणात् ज्ञातोऽयं साधुर्मम भ्राता । ततो राजा मुनिसमीपे गतः । अत एव सूत्रकारेणोक्तम्- काम्पिल्ये नगरे द्वावपि चित्र - सम्भूतौ, चित्र - सम्भूतजीवौ, चक्रवर्ति-मुनीश्वरौ समागतौ । एकत्र मिलितौ तौ च सुख-दुःखफलविपाकं सुकृत- दुष्कृतकर्मानुभावरूपं एकैकस्य परस्परं कथयतः स्म इत्यध्याहार्यम् ॥ ३॥
चक्कवट्टी महड्डिओ, बंभदत्तो महायसो ।
भायरं बहुमाणेणं, इयं वयणमब्बवी ॥ ४ ॥
ब्रह्मदत्तचक्रवर्ती भ्रातरं बहुमानेन मनसो रागेणेदं वचनमब्रवीत् । कथम्भूतः चक्रवर्त्ती ? महर्द्धिकः सम्प्राप्तषट्खण्डराज्यः । पुनः कथम्भूतो ब्रह्मदत्तः ? महायशा:, महद् यशो यस्य स महायशा भुवनत्रयप्रसिद्धः ॥ ४॥
आसिमो भायरा दोवि, अन्नमन्नवसाणुगा । अन्नमन्नमणुरत्ता, अन्नमन्नहिएसिणो ॥ ५ ॥
'मो' इति आवां द्वावपि भो ! भ्रातर्भ्रातरौ आसि-आस्व, पूर्वजन्मन्यावामुभौ भ्रातरावभवावेत्यर्थः । कथंभूतौ द्वौ ? अन्योन्यवशानुगौ, अन्योन्यं परस्परं वशमनुगच्छत इत्यन्योन्यवशानुगावन्योन्यवशवर्तिनावित्यर्थः । पुनः कथंभूतौ ? अन्योन्यमनुरक्तौ परस्परं स्नेहवन्तौ । पुनः कीदृशौ ? अन्योन्यं हितैषिणौ परस्परं हितवाञ्छकौ । एतादृशावभवावेत्यर्थः । अत्र मुहुर्मुहुरन्योन्यग्रहणं चित्ततुल्यतात्यादरख्यापनार्थम् ॥ ५ ॥
क्व च अभूतां तत्स्थानमाह
-
दासा दसने आसी, मिया कालिंजरे नगे ।
हंसा मयंगतीराए, सोवागा कासिभूमिए ॥ ६ ॥
आवां दशार्णदेशे दासौ आस्व, कालिञ्जरनाम्नि नगे पर्वते मृगौ आस्व, पुनर्मृतौ, गङ्गा नदीतटे हंसावावां आस्व, काशीभूम्यां वाराणस्यां चाण्डालावभूव ॥ ६ ॥