SearchBrowseAboutContactDonate
Page Preview
Page 226
Loading...
Download File
Download File
Page Text
________________ त्रयोदशं चित्रसम्भूतीयमध्ययनम् १३] [२१७ न्वितः भोजनं कृत्वा स स्वगृहे गतः । रात्रावत्यन्तजातोन्मादप्रसरोऽनपेक्षितमातृ-स्नुषाभगिनी-व्यतिकरो महामदनवेदनानष्टचित्तः प्रवृत्तोऽकार्यमाचरितुं द्विजः । द्वितीये दिने मदनोन्मादोपशान्तः परिजनस्य निजमास्यं दर्शितुमपारयन् निर्गतो नगरात्स द्विज एवं चिन्तयामास । अनिमित्तवैरिणा चक्रिणाहं विडम्बितः ।अमर्षं वहता तेन द्विजेन वने भ्रमता एकोऽजापालको दृष्टः, स कर्करिकाभिरश्वत्थपत्राणि काणीकुर्वन् लक्ष्यवेधी वर्तते । द्विजेन चिन्तितं मद्विवक्षितकार्यकरोऽयमिति कृत्वोपचरितस्तेन दानसन्मानादिभिः । कथितस्तेन स्वाभिप्रायोऽस्य रहसि । तेनापि प्रतिपन्नः। अन्यदा गृहान्निर्गच्छतो ब्रह्मदत्तस्य कुड्यन्तरिततनुनानेन अमोघवेधिना निक्षिप्तगोलिकया समकालमुत्पाटिते लोचने । राज्ञा तवृत्तान्तमवगम्य उत्पन्नकोपेनासौ सपुत्रबान्धवो घातितः । ततश्चक्रिणान्येऽपि द्विजा घातिताः।अशान्तकोपेन च चक्रिणा मन्त्रिण एवमुक्तम्, यथा ब्राह्मणानामक्षीणि कर्षयित्वा स्थाले निक्षिप्य स्थालं मम पुरो निधेहि, यतोऽहं तानि स्वहस्तेन मर्दयित्वा वैरवालनसुखमनुभवामि । मन्त्रिणा तस्य चक्रिण: क्लिष्टकर्मोदयवशतामवगम्य शाखोटतरुफलानि स्थाले निक्षिप्य अर्पितानि । सोऽपि रौद्राध्यवसायस्तानि । फलान्यक्षिबुद्ध्या मर्दयित्वा सुखमनुभवति । एवं स प्रत्यहं करोति । ततः सप्तशतानि षोडशोत्तराणि वर्षाणि आयुरनुपाल्य प्रवर्धमानरौद्राध्यवसायः सप्तमनरकपृथिव्यां त्रयस्त्रिंशत्सागरोपमायुर्नारको बभूव । साम्प्रतं सूत्रमनुष्ठीयते - जाईपराजिओखलु, कासि नियाणंतु हत्थिणपुरंमि । चुलनीइ बंभदत्तो । उववन्नो पउमगुम्माओ ॥ १ ॥ 'खलु', इति निश्चये अलङ्कारे वा । जात्या चाण्डालाख्यया पराजितः- पराभूतः, सर्वतो निर्घाटितो गृहीतदीक्षः सम्भूतश्चित्रस्य लघुभ्राता हस्तिनागपुरे चक्रवर्तिस्त्रीरत्नवन्दनात् केशपाशसंस्पर्शात् चक्रवर्तिपदप्रार्थनारूपनिदानमकार्षीत् । ततः स सम्भूतसाधुः पद्मगुल्मविमाने - नलिनगुल्मविमाने उत्पन्नः । ततश्च नलिनगुल्मविमानात् सम्भूतजीवो ब्रह्मराज्ञो भार्या चुलनी, तयोः पुत्रत्वेन ब्रह्मदत्त इति नाम्ना उत्पन्नः इति ॥१॥ कंपिल्ले संभूओ चित्तो, पुण जाओ पुरिमतालंमि । सिट्टिकुलंमि विसाले, धम्मं सोऊण पव्वइओ ॥ २॥ काम्पिल्ये नगरे ब्रह्मराजा, तद्भार्या चुलनी, तयोः पुत्रः सम्भूतजीवो ब्रह्मदत्तः सञ्जातः । चित्रश्चित्रजीवः पुनः पुरीमतालनगरे विशाले - विस्तीर्णे एकस्मिन् श्रेष्ठिनः कुले श्रेष्ठिपुत्रः सञ्जातः । स च चित्रजीवस्तत्र श्रेष्ठिपुत्रत्वेन समुत्पद्यानुक्रमेण तारुण्ये धर्म श्रुत्वा प्रवजितः- प्रव्रज्यामग्रहीत् ॥२॥ कंपिल्लंमि य नयरे, समागया दोवि चित्तसंभूया। सुहदुक्खफलविवागं कहंति ते इक्कमिक्स्स ॥३॥
SR No.022592
Book TitleUttaradhyayan Sutram Part 01
Original Sutra AuthorN/A
AuthorVajrasenvijay, Bhagyeshvijay
PublisherBhadrankar Prakashan
Publication Year2001
Total Pages350
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy