________________
२१६]
[ उत्तराध्ययनसूत्रे गृहीतव्रतस्तत्र नगरे मनोरमाभिधाने आरामे समवसृतः। तत्र प्रासुके भूभागे पात्रोपकरणानि निक्षिप्य धर्मध्यानोपगतः कायोत्सर्गेण स्थितः । अत्रान्तरे आरघट्टिकेन पठ्यमानं तत् श्लोका) मुनिना श्रुतम् । ज्ञानोपयोगेन स्वभ्रातृस्वरूपं सर्वमवगम्य मुनिनोत्तरचरणद्वयं पूरितम्
___ "एषा नौ षष्ठिका जाति-रन्योन्याभ्यां वियुक्तयोः ॥ १॥" ततोऽसावारघट्टिकस्तत् श्लोका) लिखित्वा प्रफुल्लास्यपङ्कजो गतो राजकुलम्, पठितश्चक्रिणः पुरः सम्पूर्णः श्लोकः । ततः पूर्वभवभ्रातृस्नेहातिरेकेण चक्री मूर्छा गतः । क्षुभिता सभा । रोषवशंगतेन सेवकवर्गेण आरघट्टिकश्चपेटाभिर्हन्तुमारब्धः, हन्यमानेन तेनोचे, इदं पदद्वयं मया न पूरितम्, किन्तु वनस्थेन मुनिनेति विलपन्नसौ मोचितः । गतमूर्छन चक्रिणा पूर्वभवभ्रातृमुनि समागतं श्रुत्वा तद्भक्तिस्नेहाकृष्टचित्तो ब्रह्मदत्तचक्री सपरिकरो निर्ययौ । उद्याने तं मुनिं ददर्श, वन्दित्वा चाग्रे उपविष्टः । मुनिना प्रारब्धा धर्मदेशना । दर्शिता भवनिर्गुणता, वर्णिताः कर्मबन्धहेतवः, श्लाधितो मोक्षमार्गः, ख्यापितः शिवसौख्यातिशयः । इमां देशनां श्रुत्वा पर्षत्संविग्ना जाता । ब्रह्मदत्तस्त्वभावित एवमाह-भगवन् ! यथा स्वसङ्गसुखेन वयमालादितास्तथा राज्यस्वीकारेण साम्प्रतमस्मानाहादयन्तु, पश्चादावां तपः स्वयमेव करिष्यावः । एतदेव वा तपसः फलम् । मुनिराह-युक्तमेवेदं वचो भवतामुपकारोद्यतानाम् । परमियं मानुष्यता दुर्लभा, सततं पतनशीलमायुः, श्रीश्च चञ्चला, अनवस्थिता धर्मबुद्धिः, विषया विपाककटवः, विषयासक्तानां च ध्रुवो नरकपातः, दुर्लभं पुनर्मोक्षबीजं विरतिरत्नम्, तत्त्यागानरकपातहेतुः, कतिपयदिनभावि राज्याश्रयणं न विदुषां चित्तमालादयति ।
ततः परित्यज्य कदाशयं प्राग्भवानुभूतदुःखानि स्मर । पिब जिनवचनामृतरसम् । सञ्चरतदुक्तमार्गेण ।सफलीकुरु मनुष्यजन्मेति । स प्राह-भगवन्नुपनतत्यागेनाऽदृष्टसुखवाछाऽज्ञानतालक्षणम्, तन्मैवमादिश, कुरु मत्समीहितं । मुनिराह संसारसुखं भुङ्क्तं परभवे महते दुःखाय भावीति तत्त्यागः कार्यते । एवं मुनिना वारंवारमुक्तोऽपि यदा चक्रवर्ती न प्रतिबुध्यते । तदा मुनिना चिन्तितम् । आः ज्ञातम्, पूर्वभवे सनत्कुमारचक्रिस्त्रीरत्नकेशसंस्पर्शनजाताभिलाषातिरेकेण सम्भतभवेऽमना मया निवार्यमाणेनापि चक्रवर्तिपदवीप्राप्तिनिदानं कृतम् । तस्येदृशं फलम् । अतः कारणादसौ दुष्टाध्यवसायो जिनवचनानामसाध्य इत्युपेक्षितम् । मुनिस्ततो विजहार, क्रमेण च मोक्षं गतः । चक्रिणोऽपि प्रकामं सुखमनुभवतः कियान् कालोऽतीतः।
अन्यदैकेन पूर्वपरिचितेन द्विजातिनोक्तोऽसौ, भो राजाधिराज ! ममेदृशी वाञ्छा समुत्पन्नास्ति, यच्चक्रिभोजनं भुञ्ज । चक्रिणोक्तम्, भो द्विज ! मामकं भोजनं भोक्तुं त्वमक्षमः, यतो मां विहाय मद्भोजनमन्यस्य न परिणमति, ततो ब्राह्मणेनोक्तम् धिगस्तु ते राज्यलक्षीमाहात्म्यम्, यदन्नमात्रदानेऽप्यालोचयसि । ततश्चक्रिणा तस्य भोजनमङ्गीकृतम्। स्वगृहे निमन्त्र्य स्वभोजनदानेन भोजितश्चासौ भार्या-पुत्र-स्नुषा-दुहितृ-पौत्रादिकुटुम्बा