________________
त्रयोदशं चित्रसम्भूतीयमध्ययनम् १३]
[२१५ सुबुद्धिनामामात्यपुत्र्या नन्दानाम्न्याः पाणिग्रहणं कृतम् । एवं च द्वयोरपि विषयसुखमनुभवतोस्तयोर्गताः कियन्तो वासराः, तयोः सर्वत्र प्रसिद्धिर्जाता।
तावन्यदा गतौ वाराणस्याम्, ब्रह्मदत्तं बहिः स्थापयित्वा वरधनुर्नगरस्वामिकटकसमीपं गतः । एष हर्षितः सबलवाहनः सम्मुखो निर्गतः, कुमारं च हस्तिस्कन्थे समारोप्य नगरीप्रवेशोत्सवो महान् कृतः।स्वभवने नीतस्य कुमारस्य स्नान-मज्जन-भोजनादिसामग्री कृत्वा, प्रकामं सत्कारं कृत्वा च स्वपुत्री कनकवती अनेकहय-गज-रथ-द्रव्यकोशसहिता दत्ता । प्रशस्तविवाहो जातः । तया समं विषयसुखमनुभवतस्तस्य सुखेन कालो याति । ततो दूतसम्प्रेषणेनाकारिताः सबलवाहनाः पुष्पचूलराज-धनुमन्त्रि-कणेरदत्त-भवदत्तादयोऽनेके राजमन्त्रिणः समायाताः । तैः सर्वैः कुमारो राज्येऽभिषिक्तः, वरधनुस्तु सेनापतिः कृतः । ब्रह्मदत्तः सर्वसैन्यसहितो दीर्घनृपोपरि चलितः । अविच्छिन्नप्रयाणैश्च काम्पिल्यपुरे प्राप्तः । दीर्घनृपेणापि कटकादीनां दूतः प्रेषितः । परं तैस्तु निर्भत्सितः दूतः स्वस्वामिसमीपे गतः । बह्मदत्तसैन्येन काम्पिल्यपुरं समन्ताद्वेष्टितम् । ततो दीर्घनृपेणैवं चिन्तितम्, कियत्कालमस्माभिलिप्रविष्टैरिवस्थेयं ? साहसमवलम्ब्य नगरात्स्वसैन्यपरिवृतो दीर्घनृपो निर्गत्य सम्मुखमायातः । ब्रह्मदत्तदीर्घनृपसैन्ययो?रः सङ्ग्रामः प्रवृत्तः । क्रमाद् ब्रह्मदत्तसैन्येन दीर्घनृपसैन्यं भग्नम् । अथ दीर्घनृपः स्वयमुत्थितः । ब्रह्मदत्तोऽपि तमायातं वीक्ष्य प्रदीप्तकोपानलस्तदभिमुखं चलितः । तयोर्द्वयोर्युद्धं लग्नम् । अनेकैरायुधैर्निक्षिप्तैर्न तयोः सङ्ग्रामरसः सम्पूर्णो बभूव । ब्रह्मदत्तेन ततश्चक्रं मुक्तम् । चक्रेण दीर्घनृपमस्तकं च्छिन्नम् । ततो जयत्येष चक्रवर्तीत्युच्छलितः कलकलः, सिद्धगन्धर्वदेवैर्मुक्ता पुष्पवृष्टिः, उक्तं च उत्पन्नोऽयं द्वादशश्चक्री । ततो जनपदलोकैः स्तूयमानो नारीवृन्दकृतमङ्गलः कुमारः स्वमन्दिरे प्रविष्टः । कृतश्च सकलसामन्तैर्ब्रह्मदत्तस्य चक्रवर्त्यभिषेकः । चक्रवर्तित्वं पालयन् ब्रह्मदत्तः सुखेन कालं निर्गमयति ।
अन्यदा चक्रवर्तिनः पुरो नटेन नाट्यं कर्तुमारब्धम् ।स्वदास्या अपूर्वं कुसुमदामगण्डं हस्ते ढौकितम् । तच्च प्रेक्षतो मीतविनोदं श्रृण्वतश्चक्रवर्तिन एवं विमर्शो जातः । एवंविधो नाट्यविधिर्मया क्वचिद् दृष्टः, क्वचिच्चैतादृशं पुष्पदामगण्डमपि घातम् । एवं चिन्तयतस्तस्य जातिस्मरणमुत्पन्नम् । दृष्टाः पूर्वभवाः, तत्र सौधर्मे पद्मगुल्मविमानेऽनुभूतं नाट्यदर्शनदिव्यपुष्पाघ्राणादिकं तस्य स्मृतिपथमाययौ । देवसुखस्मरणेन मूर्छा गतः पतितो भूमौ चक्री ।पार्श्ववर्तिभिर्वातोत्क्षेपादिना स्वस्थीकृतः । ततश्चक्रवर्तिना पूर्वभवभ्रातृशुद्धयर्थं श्लोकार्धमिदं रचितम, यथा
"आस्व दासौ मृगौ हंसौ, मातंगावमरौ तथा ॥" इदं श्लोकार्धं कृत्वा चक्रिणा वरधनुसेनापतेरुक्तम्, इदं श्लोका) सर्वत्र निर्घोषय, एतत्पश्चिमार्धं यः पूरयति तस्य राजा राज्यार्धं ददाति । इदं श्लोका) सर्वैलौकैः शिक्षितम्, ते यत्र तत्र निर्घोषयन्ति । अत्रावसरे स पूर्वभवसम्बन्धी भ्राता चित्रजीवः पुरिमतालनगरे इभ्यपुत्रो भूत्वा सञ्जातजातिस्मरणो