SearchBrowseAboutContactDonate
Page Preview
Page 223
Loading...
Download File
Download File
Page Text
________________ २१४] [उत्तराध्ययनसूत्रे न निवेदितम्, रथस्त्वग्रे चलितः । अहं तु शनैः शनैः पतितवृक्षान्तराले चलन् महता कष्टेन तस्मिन् ग्रामे प्राप्तो यत्र यूयं स्थिताः । तेन ग्रामाधिपतिना सत्कृतः । युष्माकं प्रवृत्ति श्रुत्वाहमद्य प्रगुणीभूतो भोजनप्रस्तावे समागतः । यूयमद्य मद्भाग्यान्मिलिताः । अथ तयोस्तत्राऽवियुक्तयोः सहर्ष दिवसा यान्ति । अन्यदा ताभ्यां परस्परमेवं विचारितम् । यथावाभ्यां कियत्कालं मुक्तपुरुषाकाराभ्यां स्थातव्यं ? एवं च चिन्तयतोस्तयोर्गतः कियान् कालः । अन्यदा तत्र समायातो मधुमासः, मदनमहोत्सवे जायमाने सर्वलोको नगराद्वहिः क्रीडितुमायातः ।वरधनु-कुमारावपि कौतुकेन नगराबहिर्गतौ निर्भरक्रीडारसनिमग्ने लोकेऽतर्कित एव पातितमिण्ठो निरंकुशो राज्ञो हस्ती तत्रायातः, समुच्छलितकोलाहलो भग्नक्रीडारसो नष्टः समन्तात्रारीनिकरः । एका च बालिका समुन्नतपयोधरा नश्यन्ती तस्य हस्तिनो दृष्टौ पतिता, सा शरणं मार्गयन्ती इतस्ततः पश्यति, तस्याः परिजनाः पूत्कुर्वन्ति । भयभ्रान्तायास्तस्याः पुरो भूत्वा कुमारेण स करी हक्कितः, एषा च मोचिता । सोऽपि करी तां मुक्त्वा रोषवशविस्तारितलोचनः प्रसारित-शुण्डादण्डः शीघ्रं कुमाराभिमुखं धावितः, कुमारेणाप्युत्तरीयवस्त्रं गजाभिमुखं प्रक्षिप्तम् । गजेन तद्वस्त्रं शुण्डया गृहीत्वा गगने प्रक्षिप्तम् । गगनाच्च पुनर्भूमौ निपतितम्, तद्ग्रहणाय यावत्करी पुनर्भूम्यभिमुखं परिणमति, तावदुत्प्लुत्य कुमारस्तत्स्कन्धमारूढः, स्वकरतलाभ्यां तत्कुम्भस्थलमास्फालितवान्।मधुरवचनैश्च सन्तोषितः सन् करी स्ववशं नीतः। समुच्छलितः साधुकारः, जयति कुमार इति पठितं बन्दिजनैः । कुमारेण स करी आलानस्तम्भसमीपं नीतो बद्धश्च । नरपतिस्तमनन्यसदृशं दृष्ट्वा परमं विस्मयं प्राप्तः स्वमन्त्रिणं पप्रच्छ । क एषः ? ततः कुमारस्वरूपाभिज्ञेन मन्त्रिणोक्तम् । एव ब्रह्मराज्ञः पुत्रो ब्रह्मदत्तकुमार इति । ततस्तुष्टेन राज्ञा नीतः कुमारः स्वभुवनम् । सत्कृतश्च स्नान-मज्जन-भोजनादिभिः । ततः कुमारस्याष्टौ स्वपुत्र्यो दत्ताः । महोत्सवपूर्वकं तासां पाणिग्रहणं कुमारेण कृतम् । तत्र कियद्दिनानि वरधनुकुमारौ सुखेन स्थितौ। अन्यदा एका स्त्री कुमारसमीपमागत्य भणितुं प्रवृत्ता यथा-कुमार! अस्ति किञ्चिद्वक्तव्यं तव, कुमारेणोक्तं वद, सा उवाच-अस्यामेव नगर्यां वैश्रमणो नामा सार्थवाहः, तस्य पुत्री श्रीमत्यस्ति, सा मया बालभावादारभ्य पालिता, या त्वया तदानीं हस्तिसम्भ्रमादक्षिता । हस्तिसम्भ्रमोद्धरिता सा तदानीं जीवितदायकं त्वां स्नेहेन विलोकितवती साम्प्रतं त्वदेकचित्ता त्वदूप-लावण्य-कलाकौशलमोहिता त्वामेव स्मरन्ती परिजनेन कथमपि स्वमन्दिरं नीता । तत्रापि सा न मज्जन-भोजनादिदेहस्थितिं करोति । तदानीं मया तस्या उक्तम्-कथं त्वमकाण्डे ईदृशी जाता ? यावन्ममापि प्रतिवचनं न ददासि ? हसित्वा सा एवमुवाच । हे अम्ब ! भवत्याः किमकथनीयं ? परं लज्जया किञ्चिद्वक्तुं न शक्नोमि । पुनर्मया साग्रहं पृष्टा सोवाच-येनाहं हस्तिसम्भ्रमादक्षिता, तेन समं यदि मम पाणिग्रहणं न स्यात्, तदा मेऽवश्यं मरणम् । एवमुक्त्वा तयाहं तव समीपे प्रेषिता, अङ्गीकुरुतां बालिकाम् । कुमारेण तद्वचोङ्गीकृतम् । प्रशस्तदिवसे तस्याः पाणिग्रहणं कुमारेण कृतम् । वरधनुना तु
SR No.022592
Book TitleUttaradhyayan Sutram Part 01
Original Sutra AuthorN/A
AuthorVajrasenvijay, Bhagyeshvijay
PublisherBhadrankar Prakashan
Publication Year2001
Total Pages350
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy