________________
त्रयोदशं चित्रसम्भूतीयमध्ययनम् १३]
[२१३ परं वृत्तान्तो युष्माकं ज्ञानगोचरोऽस्ति । तस्मिन् काले भवदन्तिकादागत्य पुष्पवत्या आवयोर्धातृवधवृत्तान्तः कथितः । ततः शोकभरेण आवां रोदितुं प्रवृत्ते, मधुरवचनैश्च पुष्पवत्या रक्षिते । तदा आवां शङ्करीविद्या एवं वक्तुं प्रवृत्ता, असौ भ्रातृवधकारी ब्रह्मदत्तचक्रवर्ती भविष्यति, युवां मुनिवचनं किं न स्मरथः ? एतद्वचनमाकर्ण्य आवाभ्यां जातानुरागाभ्यां मानितम् । परं पुष्पवत्या बालिकया स्नेहरससम्भ्रान्तया रक्तपताकां विहाय श्वेतपताका चालिता । तद्दर्शनानन्तरं त्वमन्यत्र कत्रापि गतः । नानाविधग्रामा-ऽऽकरनगरादिषु भ्रमन्तीभ्यामावाभ्यां त्वं क्वचिन्न दृष्टः । ततो विखिन्ने आवामिहागते । साम्प्रतमतर्कितहिरण्यसमं तव दर्शनं जातम् । ततो हे महाभाग ! पुष्पवतीव्यतिकरं स्मृत्वा कुरु अस्मत्समीहितम् । एवं श्रुत्वा कुमारेण सहर्ष मानितम् । गन्धर्वविवाहेन तयोः पाणिग्रहणं कृतम् । एकरात्रौ ताभ्यां सममुषित्वा प्रभाते कुमारस्तयोरेवमुवाच-युवां पुष्पवत्या समं गच्छतम् । तया समं च तावत्स्थातव्यम्, यावन्मम राज्यलाभो भवति । एवं श्रुत्वा ते गते । तावत्कुमारो न तद्धवलगृहं, न तं परिजनं च पश्यति, चिन्तितवांश्च एषा विद्याधरीमायेति चिन्तयन् रत्नवतीगवेषणानिमित्तं स तापसाश्रमाभिमुखं गतः । न च तत्र तेन रत्नवती दृष्टा, न चान्यः कोऽपि पुरुषो दृष्टः । ततः कं पृच्छामीति विचार्य स इतस्ततः पश्यति । तावदेको भदाकृतिः पुरुषस्तत्रायातः । कुमारेण स पृष्टः, भो महाभाग ! एवंविधरूपनेपथ्या एका स्त्री मयात्र मुक्ता, कल्येऽद्य वा त्वया सा दृष्टा ? तेन भणितं पुत्र ! त्वं किं तस्या रत्नवत्या भर्ता ? कुमारो भणति एवम् । तेन भणितम्-कल्ये सा मया रुदन्ती दृष्टा, अपराह्नकाले च तस्याः समीपे गतः । पृष्टा च सा मया पुत्रि ! कासि त्वं ? कुतः समागता? किं ते शोककारणं? क्व वा त्वया गन्तव्यं ? तया किञ्चित्कथिते सा मया प्रत्यभिज्ञाता, मम त्वं दौहित्री भवसीत्युदित्वा मया तस्य लघु पितुः समीपे गत्वा शिष्टा । तेनाप्युपलक्ष्य सा विशेषादरेण स्वमन्दिरे प्रवेशिता । सर्वत्र त्वं गवेषितः परं न क्वचिद् दृष्टः । साम्प्रतं सुन्दरं जातं यत्त्वं लब्धः । एवमुक्त्वा नीतः कुमारस्तद्गृहे, उपचारः कृतः । तत्र महोत्सवेन रत्नवतीपाणिग्रहणं कुमारः कृतवान् । तया सह विषयसुखमनुभवंश्च कियत्कालं तस्थौ ।
अन्यदा वरधनुवर्षदिवसोऽद्येत्युक्त्वा तद्गृहे कुमारेण ब्राह्मणादयो भोजिताः । अस्मिन्नवसरे वरधनुः कृतब्राह्मणवेषो भोजननिमित्तमागतः एवं भणितुं प्रवृत्तश्च । भो ज्ञापयन्तु तस्य भोज्यकारिणो यथा-यदि मम भोज्यं प्रयच्छथ तदा तस्य परलोकवर्तिन उदरे भोज्यं सङ्कामति । गृहपुरुषैस्तद्वचः कुमात्रय शिष्टम्, कुमारोऽपि गृहादहिर्निर्गतः । दृष्टो वरधनुः प्रत्यभिज्ञातश्च । गाढं कुमारेणालिङ्गितो गृहमध्ये प्रवेशितः । स्नान-मज्जनभोजनादिभिः सत्कृतश्च अनन्तरं कुमारेण पृष्टो वरधनुः स्ववृत्तान्तं जगौ । यथा तस्यां रात्रौ निद्रावशमुपागतेषु युष्मासु सत्सु पृष्टतो धावित्वा चौरेणैकेन 'कुडङ्गान्तरितेन मम पादे बाणप्रहारः कृतः । तद्वेदनापरवशोऽहं निपतितो महीतले, परमपायभीरुत्वेन मया युष्माकं १ लतागृहान्तरितेन।