________________
२१२]
[उत्तराध्ययनसूत्रे प्राप्तः, ततो मया तदन्वेषणार्थं तत्र गन्तव्यम् । ग्रामाधिपेनोक्तमलं खेदेन, यद्यस्यामटव्यां स भविष्यति तदावश्यमिह प्राप्स्यामः । इति भणित्वा तेन प्रेषिता निजपुरुषा अटव्यां गत्वा समायाताः कथयन्ति, यदस्माभिः सर्वत्र स पुरुषो गवेषितः, परं क्वचिन्न दृष्टः । किन्तु प्रहारापतितो बाण एवैष दृष्टः । ततः कुमारो वरधनुर्मूत इति चिरकालं शोकं चकार। एकदा रात्रौ तस्मिन् ग्रामे चौरधाटि: पतिता, सा च बाणैः कुमारेण जर्जरीकृता नष्टा । अथ हर्षितो ग्रामाधिपतिर्गामश्च। ___अथ ग्रामाधिपतिमापृच्छ्य, ततश्चलितः कुमारः क्रमेण राजगृहं प्राप्तः। तत्र नगराबहिः परिव्राजकाश्रमे रत्नवती मुक्त्वा स्वयं नगराभ्यन्तरे गतः। तत्रैकस्मिन् प्रदेशे तेन धवलगृहं दृष्टम् । तदन्तः प्रविष्टेन कुमारेण द्वे कन्ये दृष्टे, ताभ्यां कुमारं दृष्ट्वा प्रकटितानुरागाभ्यां भणितम् कुमार! युष्मादृशामपि पुरुषाणां रक्तजनमुत्सृज्य भ्रमितुं किं युक्तं ? कुमारेणोक्तं स जनः कः ? येनैवं यूयं भणथ । ताभ्यामुक्तं प्रसादं कृत्वासने निविशन्तु भवन्तः । तत उपविष्ट आसने कुमारः । ताभ्यां कुमारस्य मज्जनस्नानाद्युपचारं कृत्वोक्तम्, कुमार ! श्रूयतामस्मवृत्तान्तः- इहैव भरतक्षेत्रे वैताळ्यगिरिदक्षिणश्रेणिमण्डिने शिवमन्दिरे नगरे ज्वलनशिखो राजा, तस्य विद्युच्छिखानाम्नी देवी, तस्या आवां द्वे पुत्र्यौ । अस्मभ्राता उन्मत्तो नाम वर्तते । अन्यदास्मत्पिताग्निशिखाभिधानेन मित्रेण समं यावद्गोष्ठयां प्रविष्टस्तिष्ठति, तस्मिन्नवसरेऽष्टापदपर्वताभिमुखं वजन्तं सुरासुरसमूहं पश्यति । राजापि पुत्रीसहितस्तत्र गन्तुं प्रवृत्तः, अष्टापदे प्राप्तो जिनप्रतिमाश्च वन्दिताः, कर्पूरा-ऽगरुधूपाद्युपचारो महान् कृतः। प्रदक्षिणात्रयं कृत्वा निर्गच्छता राज्ञाऽशोकपादपस्याध उपविष्टं चारणमुनियुगलं दृष्टं प्रणतं च । तत्रोपविष्टस्य राज्ञः पुरस्ताद् गुरुणैवं धर्मदेशना कर्तुमारब्धा-असारः संसारः, शरीरं भङ्गरम्, शरदभ्रोपमं जीवितम्, तडिद्विलसितानुकारियौवनम्, किम्पाकफलोपमा भोगाः, सन्ध्यारागसमं विषयसुखम्, कुशाग्रजलबिन्दुचञ्चला लक्ष्मीः, सुलभं दुःखम्, दुर्लभं सुखम्, अनिवारितप्रसरो मृत्युः, तस्मादेवं स्थिते सति भो भव्याः ! मोहप्रसरं छिन्दन्तु, जिनेन्द्रधर्मे मनो नयन्तु । एवं चारणश्रमणदेशनां श्रुत्वा सुरादयो यथाऽऽगतास्तथा गताः । तदा लब्धावसरेणाग्निशिखिना भणितम्-यथैतासां बालिकानां को भर्ता भविष्यति ? चारणश्रमणाभ्यामुक्तमेते द्वे कन्ये भ्रातृवधकारिणो नायौँ भविष्यतः । तयोरेतद्वचः श्रुत्वा राजा श्याममुखो जातः।
अस्मिन्नवसरे आवाभ्यामुक्तम्, तात ! साम्प्रतमेव साधुभ्यामुक्तं संसारस्वरूपम् । तत आवयोरलमेवंविधावसानेन विषयसुखेन, आवयोरेतद्वचस्तातेन प्रतिपन्नं, आवाभ्यां च भ्रातृस्नेहेन स्वदेहसुखकारणानि त्यक्तानि ।भ्रातुरेव स्नानभोजनादिचिन्तां कुर्वन्त्यावावां तिष्ठावः ।अन्यदास्मद्भात्रा पृथिवीं भ्रमता दृष्टा कुमार! भवन्मातुलपुत्री पुष्पवती कन्यका । तद्रूपाक्षिप्तचित्तस्तां हृत्वा आगतः । परं तदृष्टिं सोढुमक्षमः स विद्यां साधयितुं गतः । अतः