________________
त्रयोदशं चित्रसम्भूतीयमध्ययनम् १३]
[२११ वरधनुः कुमार इति । कुमार उवाच-कथमेतदवगतं त्वया ? सा उवाच श्रूयताम्-इहैव नगर्यां धनप्रवरो नामा श्रेष्ठी वर्तते, तस्य धनसञ्चया भार्या वर्तते, तया अष्टपुत्राणामुपर्येका पुत्री प्रसूता, सा चाहमेव । मम च कोऽपि पुरुषो न रोचति, ततो मातुरनुज्ञयाहं यक्षमाराधितुं प्रवृत्ता । तुष्टेन यक्षेणैवमुक्तम्-वत्से ! तव भर्ता भविष्यच्चक्रवर्ती ब्रह्मदत्तो भविष्यति । मया भणितं-स मया कथं ज्ञातव्यः ? तेन उक्तम्-बुद्धिल-सागरदत्तयोः कुर्कुटयुद्धमध्ये यो दृष्टः तवानन्दं जनयिष्यति स वरधनुमित्रसहितो ब्रह्मदत्तकुमार उपलक्ष्यः । ततः परं मया हारलेखप्रेषणादिकं यत्कृतम्, तत्सर्वं तव सुप्रतीतमेवास्तीति कुमारीवाक्यमाकर्ण्य सानुरागः कुमारस्तया सह रथमारूढः । सा कुमारेण पृष्टा इतः क्व गन्तव्यं ?
रत्नवत्या भणितम् । अस्ति मगधपुरे मम पितुः कनिष्ठभ्राता धनसार्थवाहनामा श्रेष्ठी, स ज्ञातव्यतिकरो युवयोर्मम च समागमनं सुन्दरं ज्ञास्यति, ततस्तत्र गमनं क्रियते । पश्चाद्यथा युवयोरिच्छा तथा कार्यमिति रत्नवतीवचसा कुमारो मगधपुराभिमुखं गन्तुं प्रवृत्तः । वरधनुस्तदा सारथिर्बभूव । ग्रामानुग्रामं गच्छन्तौ तौ कौशाम्बीदेशान्निर्गतौ । अन्यदा गतौ गिरिगुहाटव्याम् । तत्र कण्टक-सुकण्टकाभिधानौ द्वौ चौरसेनापती तं प्रवरं रथम्, विभूषितं स्त्रीरत्नं च प्रेक्ष्य, तदक्षकं च कुमारद्वयमेव प्रेक्ष्य सन्नद्धौ सपरिवारौ प्रहन्तुमायातौ ।अत्रावसरे कुमारेण तथा प्रहरणशक्तिर्दर्शिता, यथा सर्वेऽपि चौरसुभटाः कुमारप्रहाराज्जर्जराः सर्वासु दिक्षु गताः । कुमारस्ततो रथारूढश्चलितः । वरधनुनोक्तं-कुमार ! यूयं दृढश्रान्ताः, ततो मुहूर्त्तमात्रमत्रैव रथे निदासुखमनुभवत ।
ततो रत्नवत्या सह कुमारः प्रसुप्तः, गिरिनदी एका मार्गे समायाता, तावत्तुरङ्गमाः श्रमखिन्ना नाग्रे चलन्ति । ततः कथञ्चित्प्रतिबुद्धः कुमारः श्रमखिन्नांस्तुरङ्गमान् पश्यन् रथाग्रे च वरधनुमपश्यन् जलनिमित्तं वरधनुर्गतो भविष्यतीति चिन्तितवान् । इतस्ततः पश्यन् कुमारो रथाग्रभागं रुधिरावलिप्तं ददर्श । ततो व्यापादितो वरधनुरिति ज्ञात्वा हाहा ! हतो मे सुदिति शोकार्त्तः कुमारो रथोत्सङ्गात्पपात, मूर्छा च प्राप्तवान् । पुनरपि लब्धचैतन्यः स एवं विललाप । हा भ्रातः ! हा वरधनुमित्र ! त्वं क्व गतोऽसीति विलपन् कुमारः कथमपि रत्नवत्या रक्षितः । कुमारो रत्नवती प्रत्येवमाह-सुन्दरि ! न ज्ञायते वरधनुर्मूतो जीवन् वास्तीति । ततोऽहं तदन्वेषणार्थं पश्चाद्वजामि । तया भणितमार्यपुत्र ! अवसरो नास्ति पश्चाद्वलनस्य, येनाहमेकाकिनी, चौरश्वापदादिभीमं चारण्यमिदम्, अत्र च निकटवर्ती सीमावकाशोऽस्ति, येन परिम्लानाः कुशकण्टका दृश्यन्ते । एतदलवतीवचः प्रतिपद्य रत्नवत्या सह कुमारः पथि गन्तुं प्रवृत्तः, मगधदेशसन्धिसंस्थितमेकं ग्रामं च प्राप्तः । तत्र प्रविशन् कुमारः सभामध्यस्थितेन ग्रामाधिपतिना दृष्टः । दर्शनानन्तरमेव एष न सामान्यः पुरुष इति ज्ञात्वा सोपचारः प्रतिपत्त्या पूजितो नीतश्च स्वगृहम्, दत्तस्तत्र सुखावासः । ____ तत्र सुखं तिष्ठन् स एकदा ग्रामाधिपतिना भणितः-कुमार ! त्वं विखिन्न इव किं लक्ष्यसे ? कुमारेणोक्तम्-मम भ्राता चौरेण सह भण्डनं कुर्वन् न जाने कामप्यवस्था