________________
२१०]
[उत्तराध्ययनसूत्रे इह नगर्यां श्रेष्ठिपुत्री रत्नवतीनाम्नी कन्यकास्ति । सा बालभावादारभ्यातीव मम स्नेहानुरक्ता यौवनमनुप्राप्ता । अन्यदिने सा किञ्चिद्धयायन्ती मया दृष्टा, पृष्टा च पुत्रि ! त्वं किं ध्यायसीति । सा किमपि नैव बभाण । परिजनेनोक्तमियं बहून् प्रहरान् यावदीदृश्येव किञ्चिदार्तध्यानं कुर्वन्ती दृश्यते । परमस्या हार्द न ज्ञायते । ततः पुनरपि तस्याः पृष्टम्, परं सा किञ्चिन्नोवाच । तत्सख्या प्रियङ्गल्या उक्तम्-हे भगवति ! तव पुरः सा लज्जया किञ्चिद्वक्तुं न शक्नोति, अहं तावत्कथयामि । इयं गतदिने क्रीडार्थमुद्याने गता । तत्रानया स्वभ्रातुर्बुद्धिलश्रेष्ठिनः कुर्कुटयुद्धं कारयतः समीपे एको वरकुमारो दृष्टः, तं दृष्ट्वैषा एतादृशी जाता। कुमारीसख्याः प्रियङ्गलतिकाया एतद्वचः श्रुत्वा मयोक्तं-पुत्रि ! कथय सद्भावम्, पुनः पुनरेवं मयोक्ता सा कथमपि सद्भावमुक्त्वा प्राह-भगवति ! त्वं मम जननीसमानासि, न किञ्चित्तवाकथनीयम् । अनया प्रियङ्गलतिकया कथितो यो ब्रह्मदत्तः कुमारः, स मे पतिर्भविष्यति तदा वरम्, अन्यथाहं मरिष्यामि । सा मया भणिता-वत्से ! धीरा भव । अहं तथा करिष्ये, यथा तव समीहितं भविष्यति । ततः सा किञ्चित् स्वस्था जाता । कल्यदिने पुनरेवं मया तस्या विशेषाश्वासनाकरणार्थं कल्पितमेवोक्तम्, वत्से ! स ब्रह्मदत्तकुमारो मया दृष्टः । तयापि समुच्छ्वसितरोमकूपया भणितम्-भगवति ! तव प्रसादेन सर्वं भव्यं भविष्यति । किन्तु तस्य विश्वासनिमित्तं बुद्धिलव्यपदेशेनेमं हाररत्नं करण्डके प्रक्षिप्य ब्रह्मदत्तराजनामाङ्कितलेखसहितं कृत्वा कस्यचिद्धस्ते प्रेषय । ततो मया कल्ये तथा विहितम् । एष लेखव्यतिकरः सर्वोऽपि मया तव कथितः । साम्प्रतं प्रतिलेखं देहि? ततो मयापि तस्याः प्रतिलेखो दत्तः। तन्मध्ये चेदृशी गाथा लिखितास्ति
"गुरुगुणवरधणुकलिओ, तं माणिओ मुणइ बंभदत्तोवि ।
रयणवई रयणमई, चंदोवि य चंदिमा जोगो ॥ १ ॥" इदं वरधनूक्तमाकर्ण्य अदृष्टायामपि रत्नवत्यां परमप्रेमवान् कुमारो जातः । तदर्शनसङ्गमोपायमन्वेषमाणस्य कुमारस्य गतानि कतिचिद्दिनानि ।
अन्यदिने समागतो नगरबाह्याद्वरधनुरेवं वक्तुं प्रवृत्तः, यथा एतन्नगरस्वामिनो दीर्घनृपेण स्वकिङ्करा आवां गवेषणाय प्रेषिताः सन्ति । नगरस्वामिना चावां ग्रहणोपायः कारितोऽस्ति । एतादृशी लोकवार्ता बहिः श्रुता । सागरदत्तेन एतद्वयतिकरं श्रुत्वा तौ द्वावपि भूमिगृहे गोपितौ । रात्रिः पतिता, कुमारेण सागरदत्तस्य भणितं-तथा कुरु, यथावामपक्रमावः । एतदाकर्ण्य सागरदत्तस्ताभ्यां द्वाभ्यां सह नगराबहिनिर्गतः । स्तोकां भूमि गत्वाऽनिच्छन्तमपि सागरदत्तं बलानिवर्त्य कुमारवरधनू द्वावपि गन्तुं प्रवृत्तौ । पथि गच्छद्भ्यां ताभ्यां यक्षायतनोद्यानपादपान्तरालस्थिता प्रहरणसमन्वितरथवरसमीपस्था एका प्रवरमहिला दृष्टा, ततस्तया समुत्थाय सादरं तौ भणितौ, किमियत्यां वेलायां भवन्तौ समायातौ ? इति तस्या वचः श्रुत्वा कुमारः प्राह-भदे ! को आवां ? तयोक्तं त्वं स्वामी ब्रह्मदत्तोऽयं च १ गुरुगुणवरधनुकलितः, तं मानितो जानाति ब्रह्मदत्तोऽपि । रत्नवती रत्नमयी, चन्द्रोऽपि च चन्द्रिकायोगः ॥१॥