________________
त्रयोदशं चित्रसम्भूतीयमध्ययनम् १३]
[२०९
-
पुनर्योध्धुं नाभिलषति । हारितं लक्षं सागरदत्तेन । अत्रान्तरे वरधनुनोक्तं भो सागरदत्त ! एष सुजातिरपि कुर्कुटः कथं भग्नः ? ममात्रार्थे विस्मयोऽस्ति । यदि कोऽपि कोपं न करोति तदा बुद्धिलकुर्कुटमहं पश्यामि । सागरदत्तो भणति भो महाराज ! विलोकय । नास्त्यत्र मम कोऽपि द्रव्यलोभः, किन्त्वभिमानसिद्धिमात्रप्रयोजनमस्तीति । ततो वरधनुना विलोकितः स कुर्कुटः, तच्चरणनिबद्धः सूचीकलापो दृष्टः, बुद्धिलोऽपि वरधनुं प्रति शनैरेवमाह-यदि त्वं सूचीकलापं न वक्ष्यसि, तदाहं तव लक्षार्थं दास्यामि । ततो वरधनुनोक्तंविलोकितो यत्कुर्कुटो नात्र किञ्चिद् दृश्यते । एवमुक्त्वापि यथा बुद्धिलो न जानाति तथा सूचीकलापमपाकृत्य सागरदत्तस्य तद्व्यतिकरः कथितः । सागरदत्तेन पुनः स्वकुर्कुटः प्रेरितो बुद्धिकुर्कुटेन समं युद्धं प्रववृते । सागरदत्तकुर्कुटेन जितो बुद्धिलकुर्कुट, हारितं बुद्धिलेन लक्षम् । तुष्टः सागरदत्त एवमाह - आर्यपुत्र ! गृहे गम्यते, इत्युक्त्वा द्वावपि कुमारौ रथे निवेश्य सागरदत्तः स्वगृहे गतः । सागरदत्तस्तौ परमप्रीत्या पश्यति । सागरदत्तस्नेहनियन्त्रितौ तावतीवाग्रहात्तद्गृह एव तस्थतुः ।
कियद्दिनान्तरमेको दासस्तत्रायातः, तेनैकान्ते वरधनुराकारितः, उक्तं च वरधनुकुमाराय तव तदानीं सूचीव्यतिकरद्रव्यं स्वमुखोक्तं बुद्धिलेन तद्द्रव्यार्पणायायं हार: प्रेषितोस्ति । इत्युक्त्वा हारकरण्डिका तेन वरधनवे दत्ता, दासः स्वगृहे गतः । वरधनुरपि हारकरण्डिकां गृहित्वा ब्रह्मदत्तान्तिके गतः, स्वरूपं कथयित्वा हारकरण्डिकातो हारं निष्कास्य दर्शितवान् । हारं पश्यता ब्रह्मदत्तेन हारैकदेशस्थो ब्रह्मदत्तनामाङ्कितो लेखो दृष्टः । पृष्टं च मित्र ! कस्यैष लेख: ? वरधनुर्भणति को जानाति । ब्रह्मदत्तनामकाः पुरुषा बहवः सन्ति । ततो दूरे गत्वा वरधनुनोत्कीर्णो लेखः । तन्मध्ये इयं गाथा दृष्टा'पत्थिज्जइ जइ वि जए, जणेण संजोयजणियजत्तेणं । तहवि तुमं चिय धणिअं, रयणवई मुणे माणेउं ॥ १ ॥
उपदेशपदे षष्ठश्लोकवृत्त्यां इयं गाथा एवमस्ति - 'पत्थिज्जइ जड़ हियए, जणेण संजोग - जणिय-जत्तेणं । तहवि तुमं चिय धणिअं रयणवई महइ मुणे माणेउं ' ॥ २५४ ॥ सूक्ष्मबुद्धया ध्यायता वरधनुनास्या गाथाया अर्थोऽवगतः । द्वितीयदिने एका परिव्राजिका तत्रायाता । सा कुमारशिरसि कुसुमाक्षतानि प्रक्षिप्य कुमार ! त्वं शतसहस्त्रायुर्भवेत्याशिषं ददौ । ततः सा वरधनुमेकान्ते नयति स्म । तेन समं किञ्चिन्मन्त्रयित्वा सा प्रतिगता । कुमारेण वरधनुर्जल्पितः, अनया किमुक्तं ? वरधनुर्भणति अनयैवमुक्तं यत्तव बुद्धिलेन करण्डे हारः प्रेषितोऽस्ति, तेन समं च यो लेखः समागतोऽस्ति तत्प्रतिलेखं समर्पय । योक्तमेष लेखो ब्रह्मदत्तराजनामाङ्कितो वर्तते । ततस्त्वमेव वद, कोऽसौ ब्रह्मदत्तः ? तयोक्तं श्रूयताम्, परं कस्यापि त्वया न वक्तव्यम् ।
१ प्रार्थ्यते य यद्यपि जये, जनेन संयोगजनितयत्नेन । तथापि त्वां चैव धनिकं, रत्नवती जानाति मानयितुं ॥ १ ॥