________________
त्रयोदशं चित्रसम्भूतीयमध्ययनम् १३].
[२०७ ततः कुमारेण त्वं स्ववृत्तान्तं वदेत्युक्ता सा आचख्यौ-कुमार ! अहं तव मातुलस्य पुष्पचूलस्य राज्ञः पुत्री, तवैव पित्रा दत्ता, विवाहदिवसं प्रतीक्ष्यमाणा निजगृहोद्यानदीर्घिकापुलिने क्रीडन्ती दुष्टविद्याधरेणात्रानीता।याक्दहं स्वजनविरहाग्निसन्तप्ता इह तिष्ठामि, तावत्वमतर्कितवृष्टिसमोऽत्रायातः। अथ मम जीविताशा सञ्जाता, यत्त्वं मया दृष्टः । कुमारेणोक्तंस मम शत्रुः क्वास्ति? येन तद्बलं पश्यामि । तया भणितं-स्वामिन् ।ममानेन शङ्करीनाम्नी विद्या दत्ता । कथितं चेयं विद्या पठितमात्रा तव दासदासीसखीपरिवाररूपा भूत्वा आदेशं करिष्यति । तवान्तिकमागतं प्रत्यनीकं निवारयिष्यति । दूरस्थस्यापि मम चेष्टितं पृष्टा सती इयं तव कथयिष्यति । साद्य मया प्राप्ता, स्मृता सती मम तच्चेष्टितं प्राह । यथा स उन्मत्तनामा विद्याधरः पूर्णपुण्यायास्तव बलात्स्पर्श तेजश्च सोढुमशक्तस्त्वामत्र मुक्त्वा निजभगिनीं ज्ञापनाय ज्ञापिकी विद्यां प्रेषयित्वा च स्वयं विद्या साधयितुं वंशकुडङ्गे गतोऽस्ति । ततो निर्गतमात्रस्त्वां परिणेष्यतीति ममाद्य तया विद्यया कथितम् । एतत्तस्या वचः श्रुत्वा ब्रह्मदत्तेनोक्तं वंशकुडङ्गस्थस्य तस्य विद्याधरस्य मया साम्प्रतमेव शिरच्छिन्नम्, तयोक्तमार्यपुत्र ! शोभनं कृतम्, यत्स दुरात्मा निहतः । ततः सा कुमारेण गन्धर्वविवाहेन परिणीता, तया समं विलसन् कुमारः कियत्कालं तत्र स्थितः । __अन्यदा कुमारेण तत्र दिव्यवलयानां शब्दः श्रुतः ।कुमारेणोक्तं-कोऽयं शब्दः श्रूयते ? तयोक्तं-कुमार! एषा एव वैरिभगिनी खण्डशाखानाम्नी विद्याधरकुमारीपरिवृता स्वभ्रातृनिमित्तं विवाहोपकरणानि गृहीत्वा समायाता । त्वमितस्त्वरितमपक्रम? यावदेतासामहमभिप्रायं वेधि । यद्येतासां तवोपरि रागो भविष्यति, तदाहं प्रासादोपरि स्थिता रक्तां पताकां चालयिष्यामि । अन्यथा तु श्वेतामिति ।
कुमारस्तद्गृहाद् बहिर्गत्वा दूरे स्थित ऊर्ध्वं विलोकते, तावच्चालितां धवलपताकां दृष्ट्वा शनैः शनैस्तत्प्रदेशादपक्रान्तः कुमारः प्राप्तो गिरिनिकुञ्जमध्ये । तत्र भ्रमता कुमारेणैकं सरोवरं दृष्टम् । तत्र स्नानं कृत्वा सर:पश्चिमतीरे उत्तीर्णेन कुमारेण दृष्टैका वरकन्या, चिन्तितं चाहो ! मे पुण्यपरिणतिः, येनैषा कन्या मे दृग्गोचरमागता । तयाप्यसौ कुमारः स्नेहनिर्भर विलोकितः, कुमारं विलोकयन्ती सा अग्रे प्रस्थिता । स्तोकया वेलया तया कन्यया एका दासी प्रेषिता । तया कुमाराय वस्त्रयुगलं पुष्पताम्बूलादिकं च दत्तम्, उक्तं च, या युष्माभिः सरस्तीरे कन्या दृष्टा, तया सर्वमिदं प्रेषितम्, लावण्यलतिकानाम्न्यहं तस्या दासी अस्मि । तया च ममेदमादिष्टम्-एनं महानुभावं कुमारं मम तातमहामन्त्रिणो मन्दिरे शरीरस्थिति कारय । ततस्तत्र कुमार ! यूयमागच्छत ।
ततः कुमारस्तया सह तदैवामात्यमन्दिरे गतः। तत्र दास्या मन्त्रिण एवमुक्तम् मन्त्रिन् ! त्वत्स्वामिपुत्र्यायं प्रेषितोऽस्ति, प्रकाममस्यादरः कर्तव्यः, मन्त्रिणा तथैव कृतम्। द्वितीयदिने कुमारो मन्त्रिणा राज्ञः सभायां नीतः, अभ्युत्थितेन राज्ञा कुमारस्य धुरि आसनं दत्तम्, पृष्टश्च वृत्तान्तः, कुमारेण सर्वोऽपि कथितः ।