________________
२०६]
[उत्तराध्ययनसूत्रे ततः कुमार ! आवामितो नश्यावः । नष्टौ ततो द्वावपि उन्मार्गेण वजन्तौ महाटवीं प्राप्तौ । तत्र कुमारंवटाध उपवेश्य वरधनुः जलमानेतुमितस्ततो बभ्राम। दिनावसाने वरधनुः दीर्घपृष्टनृपभट्टैदृष्टः, प्रकामं यष्टिमुष्ट्यादिभिर्हन्यमानः कुमारं दर्शयेति प्रोच्यमानः कुमारासन्त्रप्रदेशे प्रापितः । तावता वरधनुना कुमारस्य केनाप्यलक्षिता संज्ञा कृता । भट्टैरदृष्ट एव ब्रह्मदत्तो नष्टः । पतितश्च दुर्गमे कान्तारे क्षुधा-तृषा-श्रमातः कुमारस्तृतीये दिने तामटवीमतिक्रान्तस्तापसमेकं ददर्श । दृष्टे च तस्मिन् कुमारस्य जीविताशा जाता । कुमारेण स तापसः पृष्टः,भगवन् ! क्व भवदाश्रमः ? तेनासन्न एवास्मदाश्रम इत्युक्त्वा कुलपतिसमीपं नीतः, कुमारेण प्रणतः कुलपतिः । कुलपतिना भणितम्-वत्स ! कुत इह भवदागमनम् ? कुमारेण सकलोऽपि स्ववृत्तान्तः कथितः । कुलपतिनोक्तं अहं भवज्जनकस्य क्षुल्लभ्राता, ततस्त्वं निजं चैवावासं प्राप्तोऽसि, सुखेनात्र तिष्ठ । इत्यभिप्रायं तापसस्य ज्ञात्वा कुमारस्तत्रैव सुखं तिष्ठन्नस्ति।
__ अन्यदा तत्र वर्षाकालः समायातः । तदानीं निश्चिन्तितेन कुमारेण तत्र तापसान्तिके सकला धनुर्वेदादिकाः कला अभ्यस्ताः ।अन्यदा शरत्काले फलमूलकन्दादिनिमित्तं तापसेषु गच्छत्सु ब्रह्मदत्तकुमारोऽपि तैः समं वने गतः । वनश्रियं पश्यता तेन एक महाहस्ती दृष्टः । कुमारस्तदभिमुखं चलितः । कुमारं दृष्ट्वा हस्तिना गलगर्जारवः कृतः । कुमारेण तस्य पुरो निजमुत्तरीयं वस्त्रं निक्षिप्तम्। करिणापि तत्क्षणात्शुण्डादण्डेन गृहीतम्, क्षिप्तं च गगनतले । यावत्स क्रोधान्थो जातस्तावत् कुमारेण बलं कृत्वा तद्वस्त्रं स्वकराभ्यां गृहीतम्, ततस्तेन नानाविधक्रीडया परिश्रमं नीत्वा करी मुक्तः । स पश्चाद् गन्तुं प्रवृत्तः । तत्पृष्टौ कुमारोऽपि चलितः । इतश्चाग्रे गच्छन् कुमारः पूर्वापरदिग्विभागे परिभ्रमन् गिरिनदीतटसन्निविष्टं जीर्णभवनभित्तिमात्रोपलक्षितं जीर्णं नगरमेकं ददर्श । तन्मध्ये प्रविष्टश्चतुर्दिक्षु दृष्टिंक्षिपन् पार्श्वपरिमुक्तखेटकखड्गं विकटवंशकुडङ्गं ददर्श । कुमारेण तत्खड्गं तथैव कौतुकाद्वाहितम् । एकप्रहारेण निपतितं वंशकुडङ्ग, वंशान्तरालस्थितं च निपतितं झंडमेकम्, स्फुरदोष्ठं मनोहराकारं शिर:कमलं दृष्ट्वा संभ्रान्तेन कुमारेणैवं चिन्तितम् । हा ! धिगस्तु मे व्यवसितस्य, धिग्मे बाहुबलस्येति कुमारः स्वं निनिन्द । पश्चात्तापाक्रान्तेन तेन कुमारेण दृष्टं धूमपानलालसं कबन्धं, समधिकमधृतिस्तस्य पुनर्जाता।
इतस्ततः पश्यता कुमारेण पुनः प्रवरमुद्यानं दृष्टम्, तत्र भ्रमनशोकतरुपरिक्षिप्तमेकं सप्तभूमिकमावासं कुमारो दृष्टवान् । तन्मध्ये प्रविष्टः कुमारः क्रमेण सप्तभूमिकामारूढः । तत्र विकसितकमलदलाक्षी प्रवरां महिलां पश्यति स्म । कुमारेण सा पृष्टा-काऽसि त्वमिति ? ततः सा स्वसद्भावं कथयितुं प्रवृत्ता । महाभाग ! मम व्यतिकरो महान् वर्तते, ततस्त्वमेव प्रथमं स्ववृत्तान्तं वद । कस्त्वं ? कुतः समायोतः ? एवं तया पृष्टे कुमार आख्यत्-अहं पञ्चालाधिपति-ब्रह्मराजपुत्रो ब्रह्मदत्तोऽस्मीति । कुमारोक्तिश्रवणानन्तरं हर्षोत्फुल्लनयना सा 'अभ्युत्थाय तस्यैव चरणे निपत्य रोदितुं प्रवृत्ता । ततः कारुण्यहृदयेन कुमारेण सा पुनरेवं भणिता, मुखमुन्नतं कुरु, मा रुदेति चाश्वासिता सा। १ अभ्युत्थिता-D-L.॥