________________
२०४]
[ उत्तराध्ययनसूत्रे
युष्माभिः कर्तव्यमिति राज्यचिन्तां कारयित्वा ब्रह्मराजा कालं गतः । मित्रैस्तस्य प्रेत्यकर्म कृतम्, मिथश्चैवं भणितम्, एष कुमारो यावद्राज्यधुरार्हो भवति तावदस्माभिरेतद्राज्यं रक्षणीयमिति विचार्य सर्वसम्मतं दीर्घराजानं तत्र स्थापयित्वा कटक- कणेरदत्त-पुष्पचूलाः स्वस्वराज्ये जग्मुः । स दीर्घराजा सकलसामग्रीकं तद्राज्यं पालयति, भाण्डागारं विलोकयति, प्रविशत्यन्तः पुरम्, चुलिन्या समं मन्त्रयति । तत इन्द्रियाणां दुर्निवारत्वेन ब्रह्मराज्ञो मैत्रीमवगणय्य, वचनीयतामवमन्य चुलन्या समं संलग्नः । एवं प्रवर्धमानविषयसुखरसयोस्तयोर्गच्छन्ति दिनाः । ततो ब्रह्मराजमन्त्रिणा धनुर्नाम्ना तयोस्तत्स्वरूपं ज्ञातम् । चिन्तितं च य एवंविधमकार्यमाचरति, स किं कुमारब्रह्मदत्तस्य हिताय भविष्यति ? एवं चिन्तयित्वा तेन धनुर्नाम्ना मन्त्रिणा स्वपुत्रस्य वरधनुनाम्नः कुमारस्यैवं भणितम्, यथा पुत्र ! ब्रह्मदत्तस्य माता व्यभिचारिणी जातास्ति, दीर्घराज्ञा भुज्यमानास्ति । अयं समाचार एकान्ते त्वया ब्रह्मदत्तकुमारस्य निवेदनीय:, तेन च तथा कृतम् ।
ब्रह्मदत्तकुमारोऽपि मातुर्दुश्चरितमसहमानस्तयोर्ज्ञापनार्थं काक-कोकिलामिथुनं शूलाप्रोतं कृत्वा चुलनीमातृ-दीर्घनृपयोर्दर्शितम् । एवं प्रोक्तं च य ईदृशमनाचारं करिष्यति, तस्याहं निग्रहं करिष्यामीत्युक्त्वा कुमारो बहिर्गतः । एवं द्वित्रिभिर्दृष्टान्तैर्दिनत्रयं यावदेवं चकार उवाच च । ततो दीर्घनृपेण शङ्कितेन चुलन्या एवमुक्तम्- कुमारेणावयोः स्वरूपं ज्ञातम्, अहं काकस्त्वं कोकिलेति दृष्टान्तः कुमारेण ज्ञापितः . तयोक्तं बालोऽयं यत्तदुल्लपति । नात्रार्थे काचिच्छङ्का कार्या । ततो दीर्घपृष्टेनोक्तम् त्वं पुत्रवात्सल्येन न किमपि स्वहितं वेत्सि, अयमवश्यमावयोरतिविघ्नकरः, तदवश्यमयं मारणीयः, मयि स्वाधीने तवान्ये पुत्रा बहवो भविष्यन्ति । एतादृशं दीर्घनृपवचस्तयाङ्गीकृतम् । यत उक्तं
""महिला आलकुलहरं, महिला लोयंमि दुच्चरियखित्तं । महिला दुग्गइदारं, महिला जोणी अणत्थाणं ॥ १ ॥
मारेइ य भत्तारं, हणे सुअं तह पणासए अत्थं । नियगेहंपि पीलावै, णारी रागाउरा पावा" ॥ २ ॥
चुलन्या भणितम्, कथमेष मारणीयः ? कथं च लोकापवादो न भवति ? दीर्घनृपेणोक्तं साम्प्रतमस्य विवाहः क्रियते । पश्चात्सर्वमावयोश्चिन्तितं भविष्यति । ततस्ताभ्यां ब्रह्मदत्तस्य मित्रस्य कस्यश्चिद्राज्ञः कन्यायाः पाणिग्रहणं कारितम् । तयोः शयनार्थमनेकस्तम्भशतसन्निविष्टं गूढनिर्गमद्वारं जतुगृहं कारितम् ।
T
इतश्च धनुर्मन्त्रिणा दीर्घनृपायैवं विज्ञप्तम् । एष मम पुत्रो वरधनुरेतद्राज्यकार्यकरणसमर्थो वर्तते, अहं पुनः परलोकहितं करोमि । दीर्घनृपेणोक्तमिह स्थित एव त्वं दानादिधर्मं १ महिला आलकुलघरं, महिला लोके दुश्चरित्रक्षेत्रम् । महिला दुर्गतिद्वारं, महिला योनी अनर्थानाम् ॥ १ ॥ मारयति च भर्तारं घ्नन्ति सुतं तथा प्रनाशयति अर्थम् । निजगृहमपि पीडापयति, नारी रागातुरा पापा ॥ २ ॥