________________
त्रयोदशं चित्रसम्भूतीयमध्ययनम् १३]
[२०३ "मासुववासु करेइ, निच्चं वणवासु निसेवे। पढइ नाणु सुज्झाणु, निच्चं अप्पाणं भावइ ॥ १ ॥ धारइ दुद्धरबंभचेरं, भिक्खासणं भुंजइ ।
जासु रोस तासु सयलु, धम्म निप्फलु संपज्जइ ।। २ ॥" इत्यादिकैश्चित्रसाधूपदेशैः सम्भूतस्योपशान्तः क्रोधः, तेजोलेश्या संहृता । ततस्तौ द्वावपि तत्प्रदेशानिवृत्तौ, गतौ तदुद्यानम् । चिन्तितं चैताभ्यामावाभ्यां संलेखना कृता, साम्प्रतमावयोर्युक्तमनशनं कर्तुं, इति विचार्य ताभ्यामनशनं विहितम् । सनत्कुमारचक्रिणा नमुचिमन्त्रिणो वृत्तान्तो ज्ञातः, दूतैः सह रज्जुबद्धः कृतः । प्रापितश्च तदुद्याने तयोः समीपे, ताभ्यां स मोचितः, सनत्कुमारोऽपि तयोर्वन्दनार्थं सान्तःपुरपरिवारस्तत्रायातः । सर्वलोकसहितश्चक्री तयोः पादयुग्मे प्रणतः । चक्रिणः स्त्रीरत्नं सुनन्दापि औत्सुक्यात्तयोः पादे प्रणता, तस्या अलकस्पर्शानुभवेन सम्भूतयतिना निदानं कर्तुमारब्धम् । तदानीं चित्रमुनिनैवं चिन्तितमहो दुर्जयत्वं मोहस्य ! अहो दुर्दान्ततेन्द्रियाणाम् । येन समाचरितविकृष्टतपोनिकरोऽपि विदितजिनवचनोऽप्ययं युवतीवालाग्रस्पर्शेणेत्थमध्यवस्यति । ___ ततः प्रतिबोधितुकामेन चित्रमुनिना तस्य सम्भूतमुनेरेवं भणितम् । भ्रातरेतदध्यवसायानिवृत्तिं कुरु । एते हि भोगा असाराः, परिणामदारुणाः, संसारपरिभ्रमणहेतवः सन्ति । एतेषु मा निदानं कुरु ।निदानात्तव घोरानुष्ठानं नैव तादृक् फलदं भविष्यति । एवं चित्रमुनिना प्रतिबोधितोऽपि सम्भूतो न निदानं तत्याज । यद्यस्य तपसः फलमस्ति, तदाहं भवान्तरे चक्रवर्ती भूयासमिति निकाचितं निदानम् । ततो मृत्वा सौधर्मदेवलोके तौ द्वावपि देवी जातौ । ततश्च्युतश्चित्रजीवः पुरिमतालनगरे इभ्यपुत्रो जातः । सम्भूतजीवस्ततश्च्युतः काम्पिल्यपुरे ब्रह्मनामा राजा, तस्य चुलनीनाम्नी भार्या, तस्याः कुक्षौ चतुर्दशस्वप्नसूचित उत्पन्नः । क्रमेण जातस्य तस्य ब्रह्मदत्त इति नाम कृतम् । देहोपचयेन कलाकलापेन च वृद्धि गतः।
तस्य ब्रह्मराक्ष उत्तमवंशसम्भूताश्चत्वारः सुहृदः सन्ति, तद्यथा-काशीविषयाधिपः कटकः, गजपुराधिपः कणेरदत्तः, कौशलदेशाधिपतिर्दीर्घः, चम्पाधिपतिः पुष्पचूलश्चेति । तेऽत्यन्तस्नेहेन परस्परविरहमनिच्छन्तः समुदिताश्चैव एकमेकं वर्ष परिपाट्या विविधक्रीडाविलासैरेकस्मिन् राज्ये तिष्ठन्ति । अन्यदा ते चत्वारोऽपि समुदिताश्चैव ब्रह्मराज्ये स्थिताः सन्ति । तस्मिन्नवसरे ब्रह्मराज्ञो मन्त्रतन्त्रौषधाद्यसाध्यः शिरोरोग उत्पन्नः। ततस्तेन कटकादिचतुर्णां मित्राणामुत्सङ्गे ब्रह्मदत्तो मुक्तः । उक्तं च यथैष मदाज्यं सुखेन पालयति तथा १ मासोपवासः करोति, नित्यं वनवासं निसेवते ।
पठति ज्ञानं सद्ध्यानं, नित्यमात्मानं भावयति ॥१॥ २ धारयति दुर्धरब्रह्मचर्य, भिक्षाऽशनं भुनक्ति । यावत् रोषस्तावत् सकलो धर्मो निष्फलो संपद्यति ॥२॥