________________
२०२]
[उत्तराध्ययनसूत्रे अस्पृश्यत्वादिकं न जानन्ति सर्वेऽपि लोकास्तन्मयतां गताः । ततश्चतुर्वेदविद्भिर्बाह्मणैर्नगरस्वामिन एवं विज्ञप्तम्-राजनेताभ्यां चित्र-सम्भूताभ्यां चाण्डालाभ्यां सर्वोऽपि नगरीलोक एकाकारं प्रापितः, राज्ञा तयोर्नगरीप्रवेशो वारितः । कियत्कालानन्तरं पुनस्तत्र कौमुदीमहोत्सवो जातः, तदानीं कौतुकोत्तालौ तौ राजशासनं विस्मार्य नगरीमध्ये प्रविष्टौ, तत्र स्वच्छवस्त्रेण मुखमाच्छाद्य प्रेक्षणानि प्रेक्षमाणयोस्तयो रसप्रकर्षोद्भवेन मुखाद् गीतं निर्गतम्, सर्वे लोका वदन्ति । केन किन्नराणुकारेणेदं कर्णसुखमुत्पादितमिति वस्त्रं पराकृत्य लौकैस्तयोर्मुखमीक्षितम्, उपलक्षितौ तौ मातङ्गदारको, राज्ञोऽनुशासनभञ्जकत्वेन जनैर्यष्टिमुष्ट्यादिभिर्हन्यमानौ तौ नगर्या बहिनिष्कासितौ, प्राप्तौ बहिरुद्याने ।
भृशं खिन्नावेवं चिन्तयतः- धिगस्त्वस्माकं रूप-यौवन-सौभाग्य-लावण्यसर्वकला-कौशल्यादिगुणकलापस्य, यतोऽस्माकं मातङ्गजत्वेन सर्वं दूषितम् । लोकपराभवस्थानं वयं प्राप्ताः । एवं गुरुवैराग्यमागतौ तौ स्वबान्धवादीनामनापृच्छयैव दक्षिणदिगभिमुखौ चलितौ । दूरं गताभ्यां ताभ्यामेको गिरिवरो दृष्टः । तत्र भृगुपातकरणार्थमधिरूढौ । तत्र तौ शिलातलोपविष्टं तपःशोषिताङ्गं शुभध्यानोपगतमातापनां गृह्णन्तमेकं श्रमणं ददृशतुः । हर्षितौ तौ तत्समीपे जग्मतुः । भक्तिबहुमानपूर्वं ताभ्यां स वन्दितः । साधुना धर्मलाभकथनपूर्वकं तयोः स्वागतं पृष्टम् । ताभ्यां पूर्ववृत्तान्तकथनपूर्वकं स्वाभिप्रायः साधोः कथितः । साधुना कथितम्-न युक्तमनेकशास्त्रावदातबुद्धिनां भवादृशानां गिरिपतनमरणम् । सर्वदुःखक्षयकारणं श्रीवीतरागधर्मं गृह्णन्तु । इति पञ्चमहाव्रतरूपः श्रीवीतरागधर्मस्तयोः कथितः । ततस्ताभ्यां तस्य मुनेः समीपे दीक्षा गृहीता । कालक्रमेण तौ गीतार्थों जातौ । ततः स्वगुर्वाज्ञया षष्ठा-ष्टम-दशम-द्वादशाऽर्धमास-मासक्षपणादितपोभिरात्मानं भावयन्तौ ग्रामानुग्रामं विहरन्तौ कालान्तरेण हस्तिनागपुरं प्राप्तौ बहिरुद्याने च स्थितौ ।
अन्यदा मासक्षपणपारणके सम्भूतसाधुर्नगरमध्ये भिक्षार्थं प्रविष्टः । गृहानुगृहं भ्रमन् राजमार्गानुगतो गवाक्षस्थेन नमुचिमन्त्रिणा दृष्टः, प्रत्यभिज्ञातश्च । चिन्तितं च स एष मातङ्गदारको मदध्यापितो मच्चरित्रमशेषमपि जानन्नस्ति । कदाचिच्च लोकाग्रे वक्ष्यते, तदा मन्महत्वभ्रंशो भविष्यतीति मत्वा दूतैः स मुनिर्यष्टिमुष्ट्यादिभिर्मारयित्वा नमुचिना नगरादहिनिष्कासयितुमारब्धः, निरपराधस्य हन्यमानस्य तस्य कोपकरालितस्य मुखानिर्गतः प्रथमं धूमस्तोमः, तेन सर्वमपि नगरमन्धकारितम् - भयकौतूहलाक्रान्ता नागरास्तत्रायाताः। क्रोधाध्मातं तं मुनिं दृष्ट्वा सर्वेऽपि प्रसादयितुं प्रवृत्ताः । सनत्कुमारचक्रवर्त्यपि तत्रायातः । तं प्रसादयितुं प्रवृत्त एवं बभाण-भगवन् ! यदस्मादृशैरज्ञानैरपराद्धं तद्भवद्भिः क्षमणीयम् । संहरन्तु तपस्तेजःप्रभावम् । कुर्वन्तु ममोपरि प्रसादं सर्वनागरिकजीवितप्रदानेन । पुनरेवंविधमपराधं न करिष्यामः । इत्यादि चक्रिणाप्युक्तोऽसौ यावन्न प्रशाम्यति, तावदुद्यानस्थश्चित्रसाधुर्जनापवादात्तं कुपितं ज्ञात्वा तस्य समीपमागत एवमुवाच । भो सम्भूतसाधो ! उपशामय कोपानलम्, उपशमप्रधानाः श्रमणा भवन्ति । अपराधेऽपि न कोपस्यावकाशं ददति । क्रोधः सर्वधर्मानुष्ठाननिष्फलीकारकोऽस्ति, यत उक्तम् -